SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ११.] भभास्करभाष्योपेता. 333 अभिष्टये। न दक्षिणा वि चिकिते न सव्या न प्राचीनमादित्या नोत पश्चा। पाक्या चिद्वसवो धीयाँ चित् "न । दक्षिणा । वीति । चिकिते । न । सव्या । न । प्राचीनम् । आदित्याः । न । उत । पश्वा । पाक्यो । चित् । वसवः । धीर्यां । चित् ॥ ६४ ॥ __ "तत्रैव याज्या-न दक्षिणेति त्रिष्टुप् ॥ दक्षिणा दक्षिणं सव्या सव्यम्, उभयत्रापि 'सुपां सुलुक' इत्याडादेशः । दक्षिणं सव्यं च न विचिकिते न विजानामि विशेषेण न जानामि, दक्षिणसव्यविभागज्ञानमपि मे नास्तीत्यर्थः । किततेश्छान्दसो लिट् । हे आदित्याः प्राचीनं प्राक् । 'विभाषाञ्चरदिस्त्रियाम्' इति खः । पश्चा पश्चात् । ‘पश्च पश्चाच्च' इति निपात्यते । प्राक्पश्चाच्च न विचिकिते इति, प्राक्प्रत्यग्विभागज्ञानमपि मे नास्तीति । यस्मादेवं तस्मादहं पाक्याचित् पाकयितव्यः, अपरिपक्वः पाक्यः बालः । 'ऋहलोर्ण्यत्' 'तित्स्वरितम्' इति स्वरितत्वम् । हे वसवः वासहेतवः धीर्या चित् धीरयितव्यः, धीर्यः कातरः इति । तत्करोति इति णिजन्ताण्ण्यत् , पूर्ववदाकारः । यथा बालाः कातराश्च स्वयं किञ्चिद्धिताहितमजानन्तः अन्यैहिताहितकारिभिः देवेन वा नीयमाना भवन्ति, एवमहमपि युष्माभिधतः युष्माभिस्समिद्धते [....भिरस्मद्धिते]* पथि प्रवर्तमानः । वर्णविकारश्चान्दसः, 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम्, विकृतत्वादनवग्रहः । अभयं ज्योतिर्ज्ञानं विडवगमलक्षणमश्यां प्रामुयाम् । 'बहुलं छन्द *ख-स्समिद्धन्ते. ग-सामिद्धते. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy