SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 334 'तैत्तिरीयसंहिता. का. २. प्र. १. ॥ ६४ ॥ युष्मानीतो अयं ज्योतिरश्याम् । आदित्यानामव॑सा नूतनेन सक्षीमहि शर्मणा शन्तमेन। अनागास्त्वे अदितित्वे तुरासं इमं यज्ञं दधतु श्रोषमाणाः । इमं मै युष्मानीतः । अयम् । ज्योतिः । अश्याम् । "आदित्यानाम् । अव॑सा । नूतनेन । सक्षीमहि । शर्मणा । शन्तमेनेति शं-तमेन । अनागास्त्व इत्यनागाः-त्वे।अदितित्व इत्यदिति-त्वे।तुरासः। इमम् । यज्ञम् । धतु । श्रोषमाणाः । "इमम् । सि' इति शपो लुक् । यहा–युप्मत्प्रसादेन अभयं अपुनरावृत्तिभयं परं ज्योतिरश्याम् , किम्पुनर्विडवगमादीति ॥ ___1°अथ तत्रैव याज्या विकल्प्यते-आदित्यानामिति त्रिष्टुप् ॥ आदित्यानामवसा नूतनेन अभिनवेन सक्षीमहि युक्ता भूयास्म, केन ? शर्मणा सुखेन शन्तमेन सुखतमेन शान्ततमेन वा । किञ्च-अनागास्त्वे निरपराधित्वे अदितित्वे खण्डनरहितत्वे च इममस्मदीयं यज्ञं दधतु स्थापयन्तु तुरासस्त्वरमाणाः । तुर त्वरासम्भ्रमयोः, 'इगुपधात्कः' 'आजसेरसुक्' । श्रोषमाणाः अस्माकं स्तुतीश्शृण्वन्तः । शृणोतेर्विकरणौ सिप्शपौ लेटो वा व्यत्ययेन शानच् । श्रोषतिर्वा धात्वन्तरं द्रष्टव्यम् ।। 2 अथ 'ये कृष्णास्स्युस्तं वारुणं चरुं निर्व पेत् '* इत्यस्याः *सं, २-३-१. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy