SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 332 तैत्तिरीयसंहिता. [का. २. प्र. १. णि व्रता विदथै अन्तरेषाम् । ऋतेनादित्या महि वो महित्वं तदर्यमवरुण मित्र चारु । त्यान्नु क्षत्रिया अब आदित्यान् याचिषामहे । सुमृडीका व्रता । विदथे । अन्तः । एषाम् । ऋतेने । आदित्याः । महि । वः । महित्वमिति महि-त्वम् । तत् । अर्यमन्न् । वरुण । मित्र । चारूं । "त्यान् । नु । क्षत्रियानं । अवः । आदित्यान् । याचिषामहे । सुमृडीकानिति सु-मृडीकान् । अभिष्टये । चायनीयं वा ऋतेन सत्येन नात्र कार्या विचारणेति । इदानीमादित्यानेकैकत्वेनामन्त्रयते-अर्थमन्वरुण मित्रेति । प्रदर्शनं चैतदन्येषामपि ॥ 1यः परस्तादाम्यवादी स्यात्तस्य गृहाहीहीना हरेच्छुक्लांश्च कृष्णांश्च वि चिनुयाये शुक्लारस्युस्तमादित्यं चरुं निर्वपेत् ' * इत्यस्याः पुरोनुवाक्या-त्यानिति गायत्री ॥ त्यांस्तान् नु प्राक्तनान् क्षत्रियान् बलवतः-आदित्यान् अवः रक्षणं याचिषामहे याचामहे । 'सिब्बहुलं लेटि' 'लेटोडाटौ' इत्यडागमः । सुमृडीकान् सुष्टु सुखयितॄन् । 'मृडीकादयश्च' इति निपात्यते । शोभनम्मृडीकत्वं येषामिति बहुव्रीही 'नसुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम्, उञ्छादिर्वा द्रष्टव्यः ; पूर्ववद्रुत्वानुनासिकौ । अभिष्टये आभिमुख्येन तानेव यष्टुम् । अन्वादित्वात्पररूपत्वम् । यद्वा-अभिष्टयो यागस्तन्निमित्तम् । छान्दसो वर्णविकारः ॥ *सं. २.३.१. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy