SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 324 तैत्तिरीयसंहिता. [का. २. प्र. १. ते रश्मिभिस्त ऋक्कभिस्सुखादयः। ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः । अग्निः प्रथमो वसुभिनों अव्यात्सो मौ रुद्रेभिरभि रक्षतु त्मना । इन्द्रो भिः। ते । ऋकरित्युक्त-भः । सुखादय इतिसु-खादयः । ते। वाशीमन्त इति वाशि-मन्तः। इष्मिणः । अभीरवः । विद्रे । प्रियस्य । मारुतस्य । धाम्नः। अग्निः। प्रथमः । वसुभिरिति वसु-भिः। नः। अव्यात् । सोमः। रुद्रेभिः। अभीति। रक्षतु । त्मना । इन्द्रः । मरुद्भिरित मरुत्-भिः। इति चतुर्थपादादिः ॥ हे मरुतः श्रियसे सेवितुं कं जलं वृष्टयर्थम् । तुमर्थे असेप्रत्ययः । भानुभिः भानवद्भिः भानशीतैर्वा रश्मिभिः सूर्यस्य रश्मिभिः करैः सम्मिमिक्षिरे सङ्गच्छन्ते । मिक्षतिर्गतिकर्मा छान्दसः । यहा—लोके जलं श्रयितुं रश्मिभिस्सह मिमिक्षिरे मेढुमिच्छन्ति वृष्टया पृथिवी सेक्तुमिच्छन्ति ते मरुतः सुखादयः सुखादनाः । खादतेरौणादिक इप्रत्ययः । सुष्टु हविषां भक्षयितारो भूत्वा ऋत्विग्भिः सङ्गच्छन्ते । ऋक्वन्तो मन्त्रवन्तः ऋत्विज इत्यर्थः । 'छन्दसीवनिपौ' इति वनिप् , अयस्मयादित्वेन पदत्वात्कुत्वम्, भत्वाजश्त्वाभावः । ऋत्विग्भिस्संयुज्य हवींषि भक्षयन्तीत्यर्थः । ते मरुतो वाशीमन्तः शब्दवन्तः इप्मिणः For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy