SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु ११.] www. kobatirth.org भास्करभाष्योपेता. Acharya Shri Kailassagarsuri Gyanmandir 325 म॒रुद्भि॑र् ऋतुधा कृ॑णोत्वादि॒त्यैर्नो ऋ॒तुधेत्य॑तु॒ धा । कृ॒णोतु । आ॒दि॒त्यैः । नः । गमनवन्तः अभीरवः भयरहिताः प्रियस्य सर्वाभिमतस्य मारुतस्य धाम्नः मरुतां सम्बन्धिनस्स्थानविशेषस्य विद्रे लब्धवन्तः सर्वोपकारकत्वात् हविषस्सम्बन्धितया च विशिष्टं पदं प्राप्ताः । पूर्ववत्कर्मण सम्प्रदानत्वाच्चतुर्थ्यर्थे पष्ठी । विन्दतेर्लिटि द्विर्वचनाभावश्छान्दसः, ' इरयो रे' इति रेभावः । यद्वा - लटि वचनव्यत्ययेनैकवचनम्, 'बहुलं छन्दसि' इति विकरणस्य लुक्, 'लोपस्त आत्मनेपदेषु' इति तलोपः, 'बहुलं छन्दसि' इति रुटू, पादादित्वान्न निहन्यते || For Private And Personal Use Only - " यस्समानैर्मिथो विप्रियस्स्यात्तमेतया संज्ञान्या याजयेदमये वसुमते पुरोडाशमष्टाकपालं निर्वपेत्सोमाय रुद्रवते चरुमिन्द्राय मरुत्वते पुरोडाशमेकादशकपालं वरुणायादित्यवते चरुम् ' * इत्यस्याः पुरोनुवाक्या — अग्निः प्रथम इति त्रिष्टुप् ॥ अग्निः प्रथमः प्रधानः आद्यो वा वसुभिस्सहास्मानव्यात् रक्षतु । रुद्रेभी रुद्रैस्सह सोमोस्मानभिरक्षतु त्मना आत्मना आत्मनैव अन्यनिरपेक्षः । 'मन्त्रेप्वाङयादेरात्मनः' इत्याकारलोपः । इन्द्रो मरुद्भिस्सह ऋतुधा ऋतावृतौ तद्धर्मान् कृणोतु करोतु तयातया विधया प्रवर्तयतु । धाप्रत्ययश्छान्दसः । आदित्यैस्सह वरुणोस्मान् संशिशातु संशितव्रतान् करोतु निर्मलीकरोतु । श्यतेर्लोटि शपश्लुः, 'बहुलं छन्दसि' इत्यभ्यासस्येत्वम् ॥ *सं. २-२-११.
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy