SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ११.] भट्टभास्करभाष्योपेता. 323 प्रिया वो नाम ॥ ६० ॥ हुवे तुराणाम्।आ यत्तृपन्म॑रुतो वावशानाः। श्रियसे के भानुभिस्स मिमिक्षिरे देवाः। 'प्रिया । वः । नाम ॥६०॥ हुवे । तुराणाम् । एति । यत् । तृपत् । मरुतः । वावशानाः । श्रियसै । कम् । भानुभिरित भानु-भिः। समिति । मिमिक्षिरे । ते । रश्मिभिरिति रश्मि "पृश्नियै दुग्धे प्रैयङ्गवं चकै निर्वपेन्मरुद्भयो ग्रामकामः'* इत्यस्याः पुरोनुवाक्या-प्रिया वो नामेति द्विपदा त्रिष्टुप् ॥ हे मरुतः वः युष्माकं प्रिया प्रियाणि नाम नामानि । 'सुपां सुलुक्' इति लुक् । तुराणां कार्यं प्रति त्वरमाणानां हुवे आह्वयामि । पूर्ववत्सम्प्रसारणम् । आ इति आङ्दश्रवणाद्योग्यं क्रियापदमध्याहार्यम् । आगच्छतेत्यर्थः । आगमनं विशिनष्टियत् यस्मिन्नागमने वावशाना प्रामादिकं कामयमानाः यजमानाः तृपन् तृपेयुरिति । लेटि वचनव्यत्ययः, तृपतिस्तौदादिकः । यद्वातृप्तिस्तृपन् औणादिकोनिप्रत्ययः । यद्यस्माद्यूयं तृप्तिं वावशानाः कामयमानास्स्थ, तस्मादागच्छतेति, यजमानस्य वा तृप्तिं वावशानाः यस्मात्तस्मादागच्छतेति । वशेर्यलगन्ताद्व्यत्ययेनात्मनेपदम् । 'न वशः' इति सम्प्रसारणाभावः ॥ तत्रैव याज्या-श्रियस इति चतुष्पदा जगती । विद्र *सं. २-२-११. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy