SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १.] भभास्करभाष्योपैता. 241 यच्छमश्रुणस्तत्पुरुषाणारूपं यत्तूंपरस्तदश्वानां यदन्यतौदन्तद्गवां यदव्या इव शफास्तदीनां यदजस्तदुजाना॑मे॒ताव॑न्तो वै ग्राम्याः पशव स्तान ॥५॥ रूपेणैवाव॑ रुन्धे सो'यत् । श्मश्रुणः । तत् । पुरुषाणाम् । रूपम् । यत् । तूपरः । तत् । अश्वानाम् । यत् । अन्यतोदन्नित्यन्यतः-दन् । तत् । गाम् । यत् । अव्याः। इव । शफाः । तत् । अवीनाम् । यत् । अजः। तत् । अजानाम् । एतावन्तः । वै । ग्राम्याः । पशवः । तान् ॥ ५॥ रूपेणं । एव । अवेति । रुन्धे । सोमापौष्णमिति सोमा-पोष्णम् । चैतम् । 'यदित्यादि ॥ पशुगणस्स्तूयते । श्मश्रुणत्वं पुरुषाणां रूपम् । पामादित्वान्नप्रत्ययः । तूपरत्वं अश्वानां रूपम् । अन्यतोदत्त्वं अन्यतरपार्श्वस्थितदन्तवत्त्वं गवां रूपम् । 'छन्दसि च ' इति दतभावः । यतः अव्या इव अस्य शफास्सन्ति तदवीनां रूपम् । अनत्वमेवाजानां रूपम् । एतावन्तो वै ग्राम्याः पशवः प्रधानाः; उष्ट्रगर्दभयोरसत्प्रायत्वात् । तानिति । तान् सर्वान् पशून् यस्यो पूर्वोक्तगुणं पशुमालभमानः रूपद्वारेणावरुन्धे ।। तमिति ॥ त्रयाणां वत्सानां युगपज्जातानां यस्स त्रितः, तत्रभवस्त्रैतः । मध्यम एवेति केचित् । त्रयोप्यालभ्या इत्यपरे । For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy