SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 240 तैत्तिरीयसंहिता. का. १. प्र. .. स्वायै दे॒वाया आलभत ततो वै स प्र॒जाः पशूनसृजत यः प्र॒जाकामः ॥४॥ पशुकामस्स्याथ्स एतं प्राजापत्यमजं तूपरमा लभेत प्रजापतिमेव स्वेन भागधेयेनोपं धावति स एवास्मै प्र॒जां पशून्प्र जनयति अभवत् । तम् । स्वाय । देवतायै । एति। अलभत । ततः । वै । सः। प्रजा इति प्र-जाः। पशून् । असृजत । यः। प्रजाकाम इति प्रजा-कामः ॥ ४ ॥ पशुकाम इति पशु-कामः । स्यात् । सः । एतम् । प्राजापत्यमिति प्राजा-पत्यम् । अजम् । तूपरम् । एति । लभेत । प्रजापतिमिति प्रजा-पतिम् । एव । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः । एव । अस्मै। प्रजामिति प्र-जाम् । पशून् । प्रेत । जनयति । स प्रजापतिः प्रजाः पशृंश्च सृजेयेत्यकामयत । व्यत्ययेनात्मनेपदम् । उदक्खिदत् उद्धृतवान् । खिद परिघाते, छान्दसो वर्णोपजनः । व्यञ्जनद्वयादिरित्येके । तां वपामग्नेरुपरि होतुं प्रागृ. हात् अधारयत् । ततः प्रगृहीताया वपाया अजस्तूपरश्शृङ्गविहीनस्समभवत् । पुच्छविहीन इत्येके । अथ प्रजापतिः तमजं स्वायै देवतायै आत्मानमेव देवतां कृत्वा तस्यै आलभत । ततो वा इत्यादि । गतम् ॥ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy