SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 234 तैत्तिरीयसंहिता. का. २. प्र. १. भागधेयेनोपं धावति स एवैनं भूति गमयति भवत्येवातिक्षिप्रा देवतेयेनेति भाग-धेयैन । उपेति। धावति । सः । एव । एनम् । भूतिम् । गमयति । भवति । एव । अतिक्षिप्रेत्यति-क्षिप्रा । देवता । इति । आहुः । सा। यति ' इति निगमनाभावात् । किञ्च-देवताग्रहणमप्यनर्थकम्, वायुर्वै क्षेपिष्ठा इत्येव वाच्यम् । अत्रोच्यते-भूप्णुतापटुत्वं क्षिप्रकारित्वं कार्याणां सर्वार्थसाधनभूत आत्मधर्मः । अत एव निगमयति ‘भवत्येव' इति । वायुश्चायं देवतानां मध्ये क्षिप्रकारितमः । निर्धारणश्रवणान्निर्धार्य र्धारण ?] करणस्याभिधानम् । यथा-'प्राची दिशां वसन्त ऋतूनामग्निर्देवता '* इति । तदर्थमेव देवताग्रहणम् । देवतान्तरापेक्षया चातिशायिनिकः प्रयुज्यते । यजमानश्चायं मनुष्याणां मध्ये क्षिप्रतमत्वलक्षणां भूति कामयते तस्माद्वायव्यमालभेतेति । यद्वा-भूतिर्विभूतिः, तस्या यक्षिप्रतमत्वं प्रदाने स देवताभावः प्रतिपाद्यते वायुरिति । भूतिहेतुत्वं तु वायोरप्रतिपादितमेव सामर्थ्यसिद्धमिति वेदितव्यम् । भतिहेतूनां देवतानां मध्ये वायुः क्षिप्रतमां भूतिं ददातीति भावः । स्वेनेति । वायोस्स्वभूतेन शुक्लेन पशुना भागधेयेन भागेन । 'भागरूपनामभ्यो धेयः' इति स्वार्थे धेयप्रत्ययः । उपधावति उपगच्छति । सर्तेः पाघ्रादिना धावादेशः वेगितायां गतौ । शीघ्रमुपगच्छति ; स्वभागधेयलाभात् । स एवेत्यादि गतम् ॥ अतिक्षिप्रेति ॥ प्रथम इतिकरणो हेतौ । यस्मादतिक्षिप्रत्वं देवतात्वं च वायोः तस्मादेनं यजमानं सा देवता प्रदहः प्रक For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy