SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १५.] भभास्करभाष्योपेता. 191 सत् । नृषद सदृतसढ्यौमसदब्जा अतिथिः । दुरोणसदिति दुरोण-सत् । नृषदिति नृसत् । वरसदिति वर-सत् । ऋतसदित्यृत-सत् । व्योमसदिति व्योम-सत् । अब्जा इत्यप्-जाः । फलेषु भोक्तृत्वेन सीदतीति वरसत् । ऋते यज्ञे सत्ये वा सीदतीति ऋतसत् । विविधे रक्षणे तृप्तौ वा सीदतीति व्योमसत्। अद्भयो जातः अब्जाः शरीराभिप्रायं, शुक्लाज्जातत्वात् । यथा 'पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति '* इति । अपां वा यागद्वारेण जनयिता । अन्तर्भावितण्यर्थात् 'जनसनखन ' इति विट् , 'विड्डनोः' इत्यात्वम् । गोषु पशुषु अनुग्राहकतया जातः गोजाः । ऋते यज्ञे ऋतार्थ वा जातः प्रादुर्भूतः ऋतनाः । अद्रिजाः पर्वतादिप्वपि प्रादुर्भूतः । ऋतं सत्यरूपं बृहद्ब्रह्म । अथाधिदेवे-हंस आदित्यः । शुचिनि मण्डले सीदतीति शुचिषत् । होता अपामादाता । वेद्यामाराध्यतया सीदतीति वेदिषत् । अतिथिस्सततगतिः । दुरोणेषु गृहेषु मेषादिषुः सीदतीति दुरोणसत् । वराणां दातृत्वेन तेषु सीदतीति वरसत् । अपो जनयतीत्यब्जाः । गोनाः रश्मिसमूहवर्ती । ऋते सत्ये जात ऋतनाः । अद्रिजाः उदयाचलात्प्रादुर्भूतः । समानमन्यत् । अथाधियज्ञे-हंसो रथः हन्ति पृथिवीमिति । शुचौ देवयजने रथवाहने च सीदतीति शुचिषत् । शुचिर्यजमानः सीदत्यस्मिन्निति वा शुचिषत् । होतेव वेद्यां सीदतीति वेदिषत् । अतिथिस्सर्वत्राप्रतिहतगतिः । नृषत् मनुष्यार्थ शूरार्थं वा सीदतीति नृषु वा *छा. उ. ५.३.३. +म-कोशे मेषादिषु इति नास्ति.. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy