SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ७.] भभास्करभाष्योपैता. 139 तरसदो वरुणनेत्रा उपरिषदो बृहस्पतिनेत्रा रक्षोहणस्ते नः पान्तु ते नौवन्तु तेभ्यः ॥ १२ ॥ नमस्तेतर-सदः । वरुणनेत्रा इति वरुण-नेत्राः । 'उपरिषद इत्युपरि-सदः । बृहस्पर्तिनेत्रा इति बृहस्पति-नेत्राः । रक्षोहण इति रक्षः-हनः । ते । नः। पान्तु । ते । नः। अवन्तु । तेभ्यः ॥१२॥ नमः। ____-'यस्मिन्नहनीन्द्रतुरीयं कर्म क्रियते तस्यां राज्यां पञ्चेष्मीयेन यजेत, आहवनीयधिष्ण्य एव चतुर्धाहवनीयं प्रतिदिशं व्युद्धृत्य मध्ये पञ्चमं कृत्वा पञ्चगृहीतेनाज्येन यथालिङ्गं जुहोति । आज्येनैतान्व्याघारयतीति केचित्-ये देवाः पुरस्सद इत्यादिभिः ।। तत्र ये देवा इति पदद्वयं रक्षोहण इत्यादि च पूर्वत्र परत्र च पञ्चस्वप्यनुषज्यते । ये देवाः पुरस्सदः पूर्वस्यां दिशि सीदन्तीति । 'पूर्वापराधराणाम् ' इत्यसिप्रत्ययः । अग्निनेत्राः आनिप्रधानाः । 'छन्दसि नेतुरुपस डानम् ' इत्यप्रत्ययः, 'ऋतश्छन्दास' इति कबभावः । रक्षोहणः रक्षसां हन्तारः, ते नोस्मान्पान्तु, ते नोस्मानवन्तु प्रीणयन्तु, तेभ्यो नमः नमस्कुर्मः, तेभ्यस्स्वाहा स्वाहुतमस्तु । एवं ये देवाः दक्षिणसदः यमनेत्रा रक्षोहणः ते नः पान्तु ते नोवन्त्वित्यादि । तथा ये देवाः पश्चात्सदः सवितृनेत्राः रक्षोहण इत्यादि । ये देवा उत्तरसदो वरुणनेत्राः रक्षोहण इत्यादि । ये देवा उपरिषदो बृहस्पतिनेत्राः For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy