SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. ७.] www. kobatirth.org भट्टभास्करभाष्योपैता. Acharya Shri Kailassagarsuri Gyanmandir 137 ऐ॒न्द्रानं द्वाद॑शकपालं वैश्वदे॒वं च॒रुमिन्द्रा॑य॒ शुनासीरा॑य पुरोडाशं द्वाद॑शकपालं वाय॒व्य॑ पय॑स्स॒र्यमेककपालं द्वादशग॒व सीरं दक्षिणा'ऐ॒न्द्रा॒ग्नमित्यै॑न्द्र–अ॒ग्नम् । द्वाद॑शकपाल॒मति॒ द्वाद॑श - पाल॒म् । वैश्व॒दे॒वमति॑ वैश्व – दे॒वम् । च॒रुम् । इन्द्रा॑य । शु॒ना॒सीरा॑य । पुरोडाश॑म् । द्वाद॑शकपाल॒मिति॒ द्वाद॑श – कपाल॒म् । वा॒य॒व्य॑म् । पर्यः । सौर्यम् । एक॑कपाल॒मित्येकै – कपाल॒म् । द्वाद॒श॒ग॒वमिति॑ द्वादश- ग॒वम् । सीर॑म् । दक्षि॑णा । - For Private And Personal Use Only 'अथ शुनासीरीयं हविर्विदधाति — ऐन्द्रानं द्वादशकपालमिति ॥ तानि पञ्च हवींषि पञ्चसञ्चरव्यतिरिक्तानि तेन दश हवींषीति केचित् । अन्ये तु ' एतद्ब्राह्मणान्येव पञ्च हवींषि ' इत्युक्ता ' अथेन्द्राय शुनासीराय ' * इति त्रयाणामनुब्राह्मणे विधानादष्टावित्याहुः । तदानीमैन्द्रानवैश्वदेवयोर्विकल्पार्थमानानम् । शुनो वायुः, सीर आदित्यः, तद्वानिन्द्र इहोच्यते, अभेदात्मत्वात् । मत्वर्थीयो वा लुप्यते । 'देवताद्वन्द्वे च' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । वायव्यम् । ' वाध्वृतुपिनुषसो यत्' इति यत् । एवं सर्वे एककपालानां यागाः । द्वादशगवं द्वादश गावस्समाहृताः, तद्युक्तं सीरं लाङ्गलं च दक्षिणा । गोरतद्धितलुकि ' इति अच् । 6 राजसूयान्तर्भाविताश्चातुर्मास्ययागारसमाप्ताः ॥ *OTT. 9-19-9.
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy