SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 136 तैत्तिरीयसंहिता. का. १. प्र. ८. wwwwwwwwwwwwww षस्व तेनावसेन परो मूजवतोतीह्यवंततधन्वा पिनाकहस्तः कृति वासाः ॥ ११ ॥ अवसेन । परः। मूर्जवत इति मूर्ज-वतः । अतीति । इहि । अव॑ततधन्वेत्यवतत-धन्वा । पिनाकहस्त इति पिनाक-हस्तः । कृत्तिवासा इति कृति-वासाः ॥ ११ ॥ सुभेषजमिहि त्रीणि च ॥ ६ ॥ पथः येन अवते । गत्यर्थादौणादिकोस्वप्रत्ययः । परः परस्तात् । मूजवान्नाम पर्वतः उच्छ्रिततया प्रसिद्धः; तस्यापि परस्तात् अतीहि अतिक्रम्य गच्छ । यहा-मूङ बन्धने, बन्धजस्संसारो मूजः तद्वतः प्रपञ्चादतीहि । परशब्दाच्छान्दसोसिच्प्रत्ययः । अवततधन्वा अवतारितज्याकरवत्तादृशं धनुर्यस्य इति बहुव्रीहौ 'धनुषश्च' इत्यानङ्, 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । पिनाकहस्तः पिनाकाख्यं धनुर्दण्डं हस्ते अलङ्कारार्थं वहन्न हि ते निरायुधस्यापि चोरादिभयमस्ति । कृत्तिवासाः वैयाघनागचर्ममात्रं वसानः । कवचादि नेति भावः । ईदृशो दूरतरः गन्तुमर्हति । देव वयं न बिभीमः प्रसादाढते कस्त्वां पश्यन्न बिभेतीति । साकमेधास्समाप्ताः ॥ . इत्यष्टमे षष्ठोनुवाकः. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy