SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ६.] भभास्करभाष्योपेता. 18 कं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । एष ते रुद्र भागस्तं जुम्बकम् । यजामहे । सुगन्धिमिति सु-गन्धिम् । पुष्टिवर्धनमिति पुष्टि-वर्धनम् । उर्वारुकम् । इव । बन्धनात् । मृत्योः । मुक्षीय । मा । अमृतात् । 'एषः। ते । रुद्र । भागः । तम् । जुषस्व । तेन । नित्यशोभनं यशोगन्धि, सर्वसुकृतमयत्वात् । 'गन्धस्यत्वे तदेकान्तग्रहणम्' इतीत्वम् । पुष्टिवर्धनं गोभूमिवित्तविद्यादिपुष्टिहेतुं ईदृशं देवं यजामहे । किमर्थम् ? यथा उर्वारुकं फलं बन्धनात्प्रसवबन्धनात् पक्कं स्वयं मुच्यते, एवमहमपि मृत्योरनेन मुक्षीय मुक्तो भूयासं, मामृतान्मुक्षीय अमरणो भूयासम् । मुचेराशिषि लिङि सीयुटि 'लिङ्मिचावात्मनेपदेषु' इति कित्त्वम् । बहुव्रीही 'नमो जरमर' इत्युत्तरपदाद्युदात्तत्वम्, भावप्रधानो द्रष्टव्यः । त्रपुसमुर्वारुकमिति केचित् । हिम*मित्यन्ये । अन्य आहुः-पुरुषेण वाह्यात्काष्ठादिभारात् यदारातिरिक्तं तदुर्वारुकमिति तद्यथा बन्धनव्यवसायान्मुच्यते न वाहकवशं भवति एवमहं मृत्योर्मुक्षीय मृत्युवशं मा गां मां मृत्युर्मा गात् इति । उरोभराद्वारणीयमुर्वारुकमिति ॥ _ 'शुप्के स्थाणौ तान्वनाति-~-एष त इति ॥ हे भगवन् रुद्र एष तव भागः, तं जुषस्व गृहाण ! तेनानेनावसेन पथामवनेन *म-घ-भिट. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy