SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १.] भभास्करभाष्योपेता. 107 कपालं कृष्णं वासः कृष्णतूषं द क्षिणा वीहि स्वाहाहुतिं जुषाण एष कपालम् । कृष्णम् । वासः । कृष्णतूंषमिति कष्ण-तूषम् । दक्षिणा । वीति । इहि । स्वाहा । प्रचरणन्तु नैऋतयागात्पश्चादिति विवेकः । तत्रानुमतं पिंषन् पश्चादुत्तरतश्च व्यवशातयति तण्डुलान्, तत्र ये शम्यायाः प्रत्यञ्चः प्रत्यग्गताः अवशीर्यन्ते अवपतन्ति तान् नैर्ऋतमेककपालं निर्वपेत्, निर्वपतीति प्रकृतत्वात् । निर्वपतिस्तु तूष्णीमुपचारादित्याहुः । निर्वपतिर्वा धात्वर्थसामान्ये करोत्यर्थे वर्तते । तान् प्रतीचीनांस्तण्डुलान् नैर्ऋतं कुर्यादित्यर्थः । तमित्येककपालापेक्षयैकवचनम् । पूर्ववत्समासादिः । विबाधन*पृथिव्येव निऋतिः, पृथिव्येव विश्वमनुगृह्णाति निगृह्णाति च । ब्राह्मणं च भवति ‘इयं निरऋतिः' इति । देवतान्तरं वा पूर्ववत् । तत्र कृष्णं वासः कृष्णतूषं कृष्णदशान्तं दक्षिणा ॥ तत्र नैरृतेन प्रचरितुं दक्षिणमपरमवान्तरदेशं गमिष्यन् गाईपत्ये जुहोति-वीहीति ॥ वीहि विगच्छ विगच्छद्भिरस्माभिः विश्लिष्टो भव मास्माननूत्थाय बाधिष्ट । हे गार्हपत्य तुभ्यं स्वाहा स्वाहुतं करोमीदमाज्यम् । तस्मादिमामाहुतिं जुषाणस्सेवमानः शान्तो भूत्वा इहैवास्स्वेत्यर्थः । स्वाहाकतामिमामाहुतिं जुषाण इति वा । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । जुषेश्शानचि 'बहुलं छन्दसि' इति शपो लुक् , व्यत्ययेन *क. घ. निवाधन. ब्रिा. १-६-१, For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy