SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 106 तैत्तिरीयसहिता. [का. १. प्र. ८. पति धेनुर्दक्षिणा ये प्रत्यञ्चश्श म्याया अवशीयन्ते तं नैर्ऋतमेकवपति । धेनुः । दक्षिणा । ये । प्रत्यञ्चः । शम्यायाः । अवशीयन्त इत्येव-शीयन्ते । तम् । नैर्ऋतमिति नैः-ऋतम् । एककपालमित्येकतत्रास्मिन् प्रश्ने कर्माणि विधीयन्ते मन्त्राश्च केवलमानायन्ते, न विनियुज्यन्ते । औपानुवाक्ये तु कर्माणि च विधीयन्ते मन्त्राश्याम्नायन्ते तदानीमेव च ते विनियुज्यन्ते इति विशेषः । तत्र राजसूये पवित्रेग्निष्टोमे पञ्चम्यां संस्थिते षष्ठीमारभ्यान्वहमनुमत्यादयोष्टौ यागास्सन्ति, तान्विदधाति-~-अनुमत्यै पुरोडाशमष्टाकपालं निर्वपतीत्यादि ॥ अनुब्राह्मणं च भवति 'अष्टावेतानि हवींषि भवन्ति' * इति । तत्र षष्ठयामानुमतमष्टाकपालं निर्वपति । या यया] सर्व क्रियते [ साऽनुमतिः ।] अनुमतिरिति 'इयमेवास्मै राज्यमनुमन्यते'* इत्यनुमत्यभिमानिनी वा काचिद्देवता एथिवीत्वेन रूप्यते । 'तादौ च निति' इति गतेः प्रकृतिस्वरत्वम् । तस्यै पुरोडाशमष्टाकपालं निर्वपति तदुद्देशेन पृथक्करोति । अष्टसु कपालेषु संस्कृत इति तद्धितार्थे द्विगुः, 'द्विगो गनपत्ये' इति प्राग्दीव्यतीयस्य लुक् , 'अष्टनः कपाले हविष्युपस डानम् ' इति पूर्वपदस्यात्वम्, 'इगन्तकालकपाल' इति पूर्वपदप्रकृतिस्वरत्वम् । तत्र धेनुः प्रत्यग्रप्रसवा गौर्दक्षिणा देया । 'दक्षिणस्यादिगाख्यायाम्' इत्याद्युदात्तत्वम् ॥ __ तथास्मिन्नेव नैरृतं विधातुमाह-ये प्रत्यञ्च इत्यादि ॥ अत्र 'नैऋतेन पूर्वेण प्रचरति' * इत्यनुब्राह्मणदर्शनादानुमतात्पूर्वमेव नैरतेन प्रचरितव्यं, तत्रानुमतस्य प्रथमानानसामर्थ्यात्प्रथममानुमतमासाद्यते । *ना, १-६-१, - For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy