________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. १.]
भट्टभास्करभाष्योपेता
www
स्थ वृत्रतुरो राधोगूर्ता अमृतस्य पत्नीस्ता देवीदेवत्रेमं यज्ञन्धत्तोपंहू
तास्सोम॑स्य पिबतोप॑हूतो युष्मांकराधः-गूर्ताः । अमृतस्य । पत्नीः । ताः । देवीः । देवति देव-त्रा । इमम् । यज्ञम् । धत्त । उपहूता इत्युपं-हताः । सोमस्य । पिबत । उपहूत इत्युपं-हूतः। युष्माकम् ॥ १ ॥ सोमः । पिबतु।
त्रमसुरं बाधितवत्यः । राधोगूर्ताः राधोन्नम् सोमलक्षणम् , तस्मिन् गूर्तमुद्योगो यासां ता राधोगूर्ताः तत्सम्पादनायोद्युक्ता इत्यर्थः । गुरी उद्यमने, भावे निष्ठा, वीदितो निष्ठायाम् । इतीनतिषेधः, 'हलि च' इति दीर्वः, 'नसत्तनिषत्तानुत्तप्रतूतमूर्तगूर्तानि छन्दसि ' इति नत्वाभावः । अमृतस्य मृतिरहितस्य सोमस्य, अमृतत्वस्य* वा पत्नयः पालयित्र्यः । 'पत्यु! यज्ञसंयोगे' इति नकारः । ताः पत्नीः । ' वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । या यूयमीदृश्यः स्थ, ताः हे देवीः देव्यः देवनादिगुणयुक्ताः । पूर्ववदीर्घत्वम् । इमं यज्ञं देवत्रा देवेषु धत्त स्थापयत । 'देवमनुष्य ' इति त्राप्रत्ययः । किञ्च, उपहूताः उपयामत्वं चापि चिदपवादत्वेनोपदिष्टास्तैः । [] देवैरभ्यनुज्ञाताः यूयं सोमस्य पिबत। क्रियाग्रहणेन सम्प्रदानत्वात् 'चतुर्थ्यर्थे बहुलं छन्दसि' इति षष्ठी । सोप्युपहूतो युष्माकं पिबतु *ख-अमृतस्य. क-उपमायामत्वत्. ग-तैरिति नास्ति. 6 क, घ–'योद्धं विश्वत इति' इत्यधिकः पाठः.
For Private And Personal