SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ७.] भास्करभाष्योपैता 6 निर्दग्धा॒ अरा॑तयो " ध्रुवम॑सि पृथि॒वीं दृश्हायु॒र्दृश्ह प्र॒जां दृह सजा॒तान॒स्मै यज॑माना - य॒ परी॑ह 'ध॒र्त्रम॑स्य॒न्तरि॑क्षं दृह प्रा॒णं दृहापा॒नं दृह सजा॒तान॒स्मै यज॑मानाय॒ प " - "मध्यमं कपालमुपदधाति — ध्रुवमिति ॥ ध्रुवं निश्चलं मध्यमं सर्व कपालानामसि । सर्वं तद्वत् । ष्टथिवीं ढंह दृढां कुरु । दृह दृहि वृद्धौ, अन्तर्भावितण्यर्थः । ष्टथिवीशब्दो ङीषन्तोऽन्तोदात्तः । यजमानस्यायुः प्रजां च ढंह । प्रजाशब्दः कृदुत्तरप्रकृतिस्वरेणान्तोदात्तः । किञ्च – अस्मै यजमानाय । षष्ठयर्थे च - तुर्थ्यो । अस्य यजमानस्य सजातान् समानजन्मनः पर्यूह परितस्सेवमानान् कुरु । ' सजातानस्मा अभितो बहुलान् करोति + इत्यादि ब्राह्मणम् । समानस्य छन्दसि' इत्यादिना सभा - वः । ' वा जाते' इत्युत्तरपदान्तोदात्तत्वम् । जात्यादिग्रहणं नानुवर्तिष्यते । ' ऊडिदम् ' इत्यादिना अस्मा इति विभक्तेरुदा। तत्वम् । लसार्वधातुकानुदात्तत्वे यजमाने धातुस्वरः । ' उपसर्गादस्यत्यूह्योर्वा वचनम् ' इत्यूह्यतेः परस्मैपदत्वम् ॥ 37 'पूर्वार्धमुपदधाति — धर्त्रमिति ॥ धर्त्र धारकं पुरस्तात्पुरोडाशस्यासि । धृञ् धारणे, 'गुधृविपचि' इत्यादिना त्रप्रत्ययः । अन्तरिक्षादिकं ढंह निश्चलं धारय । प्राणापानशब्दौ थाथादिस्वरेणान्तोदात्तौ । समानमन्यत् ॥ * क - सः त्वद्वत् . ख -- तत्त्वं तद्वत् [' सर्व तद्वत् ' -- धर्त्रमित्याद्युत्तरं सर्व इत्थमेव व्याख्येयमित्यर्थः . ] बा. ३-२-७ For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy