SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ६.] भट्टभास्करभाष्योपेता 35 त्वाऽपानार्य त्वा व्यानाय॑ त्वा दीर्घामनु प्रसितिमायुषे धां देवो वस्सविता हिरण्यपाणिः प्रतिगृह्णातु ॥ ९ ॥ प्राणार्य त्वा पञ्चदश च ॥६॥ "पिनष्टि-प्राणायत्वेति ॥ प्राणार्थं त्वां प्राचीनं पिनष्मि , अपानार्थ प्रतीचीनं , व्यानार्थं तिरश्चीनं ; प्राणादिवृत्तीनामेवंरूपत्वात् । सर्वत्र थाथादिस्वरेणान्तोदात्तत्वम् । घर्थे कः, घञ् वा । बहुलमिति वचनाद्धयभावः । व्याने संहितायां छान्दसं दीर्घत्वम् ॥ बाहू अन्ववेक्षते-दीर्घामन्विति त्रिष्टुभैकपदया ॥ प्रसितिः प्रबन्धः कर्मसन्तानः । षिञ् बन्धने, 'तादौ च निति कृत्यतौ' इति पूर्वपदप्रकृतिस्वरत्वम् । दीर्घामविच्छिन्नां प्रसितिमनु युवां धां दधामि अविच्छिन्नेन कर्मसन्तानेन युवां सम्बध्नामि । 'तृतीयार्थे ' इत्यनोः कर्मप्रवचनीयत्वम् । धामिति दधातेर्लेट , 'इतश्च लोपः परस्मैपदेषु ', ' बहुलं छन्दसि' इति शपो लुक् । आयुषे आयुरर्थ, यजमानस्याविच्छिन्नमायुर्भूयादिति । यहा-आयुरन्नं पुरोडाशलक्षणं, तत्सिद्ध्यर्थम् ॥ __कृष्णाजिने पिष्टानि प्रस्कन्दयति-देव इति ॥ व्याख्यातम् * । 'अन्तरिक्षादिव वै 'इत्यादि ब्राह्मणम् ॥ - इति षष्ठोनुवाकः. *सं.१-१-५. ब्रिा.३-२-६. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy