SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 34 [का. १. प्र. १. पार्व॑ते॒यी प्रति॑ त्वा पर्व॒तिर्व॑त्न॒ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॑ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्या॒ामधि॑वपामि धा॒न्य॑मसि घिनुहि दे॒वान्प्रा॒णाय॑ Acharya Shri Kailassagarsuri Gyanmandir तैत्तिरीयसंहिता मानोतिप्रत्ययो बहुलवचनात्पर्वतेरपि भवति । तस्यापत्यं पार्वतेयी । आकृतिगणत्वाडूकि 'कितः' इत्यन्तोदात्तत्वम्, उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् । शिलापुत्रकवदपत्यत्वमुपचर्यते । यस्मात्त्वं विषणासि पार्वतेयी, तस्मात्वां दुहितृस्थानीयां सां पर्वतिः दृषत् प्रतिवेत्तु त्वां मातेव दुहितरमुत्सङ्गस्थामनुजानातु ॥ " 'पुरोडाशीयानधिव [न्निर्व पति - देवस्य त्वेति ॥ सावित्रो व्याख्यातः * | अधिवपनं दृषदि प्रक्षेपणम् ॥ 'अधिवपति - धान्यमिति ॥ धान्यं पोषकमसि । दधातेः पोषणकर्मणः ' दधातेर्यन्नु' इति यत्प्रत्ययः, बहुलवचनात् 'यतो नाव:' इत्याद्युदात्तत्वं बाधित्वा तित्स्वरितत्वम् । यद्वा - ' तिल्य । शिक्यमर्त्यकाष्मर्यधान्यकन्याराजन्यमनुष्याणामन्तः ' इति अन्तस्सूरितत्वम् । धिनोत्यर्थे प्रीणने वा दधातिर्वर्तते । यस्माच्वमीदृशमसि तस्माद्देवानां धिनुहि प्रीणय । यद्वा-धान्यं पोषिणशीलं वर्धिष्णुस्वभावं हव्यमसि । तस्माद्देवान् यावदभिलाषं प्रथित्वा प्रीणय । 'एतस्य यजुषो वीर्येण । इत्यादि ब्राह्मणम् । हिवि दिवि धिवि जिवि प्रीणनार्थाः । ' धिन्विकृण्व्योरच ' इत्युप्रत्ययः । ' अतो लोपः ' ' उतश्व प्रत्ययाच्छन्दो वा वचनम् ' इति हेर्लुङ क्रियते, पित्त्वनिषेधात् । ङित्त्वादुदात्तत्वं च हैः ॥ *सं. १-१-४.९ +गतो. For Private And Personal Use Only बा. ३-२-६
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy