SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra __www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. २.] भभास्करभाष्योपेता अरांतयः 'प्रेयमंगाद्विषां बुर्हिरच्छ मना कृता स्वधया वितष्टा त आवहन्ति कवयः ळम् ' इति बहुलवचनात्कर्तरि क्तिन् । अतोन्येऽरातयः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥ गार्हपत्यप्रदेशादाहवनीयं गच्छति-प्रेयमिति त्रिष्टुभा ॥ इयमश्वपशुः प्रागात् प्राची गच्छति । 'छन्दसि लुङ्लङ्लिटः' इति लुङ् । धिषणा धृष्टा लवने समर्था । 'धृषेधिषि च संज्ञायां' इति क्युप्रत्ययः । बर्हिरच्छ आप्तुं मनुना प्रजापतिना सर्वस्य का कृता । स्वधया अन्नेन मांस*लक्षणेन करणेन मनुना कर्ता कृता । दधातेः 'आतोनुपसर्गे कः' । कदुत्तरपदप्रकृतिस्वरत्वम् । वितष्टा विशेषेण तनूकता अतिनिशिता । 'यस्य विभाषा' इतीट्प्रतिषेधः । ‘गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् । कस्मात्पुनरियं प्राची गच्छतीत्याह-त इति ॥ ते खलु कवयो मेधाविनः यज्ञकर्मविदः पुरस्तात्पूर्वस्या दिशः बहिरावहन्ति । पञ्चम्यन्तादस्तातिः । देवेभ्यः षष्ठ्यर्थे चतुर्थी वक्तव्या' । देवेभ्यो जुष्टं, एवं हि क्रियमाणे देवानां प्रियं भवतीति । 'नित्यं मन्त्रे' इति जुष्टशब्द आधुदात्तः । वेदि प्रत्यवेक्षमाणो मन्त्रशेषं ब्रवीति-इह अस्यां खलु वेद्यां, तत् लविष्यमाणं बर्हिः, आसदे आसादयितव्यम् । एवमिदमर्हति । सदेय॑न्तात् ‘कृत्यार्थे तवैकेन्' इति केन्प्रत्ययः । ‘बहुळं संज्ञाछन्दसोः' इति णेलृक् । 'न लुमता' इति वृद्धयभावः । कडुत्तरपदप्रकृतिस्वरेण निवादाद्युदात्तः ॥ - - *क-सानाय्य. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy