SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । 12 तैत्तिरायसंहिता [का. १. प्र. १. पुरस्ताद्देवेभ्यो जुष्टमिहबर्हिरासदै 'देवानी परिषूतम॑सि वर्षवृद्धमसि देवबर्हित्विान्व ___ 'प्रस्तरार्थान् दर्भान्प्रतिगृह्णाति-देवानामिति ॥ चतुर्थ्यर्थे षष्ठी। देवार्थ परिषूतं परिगृहीतमसि, नात्मार्थम् । अतो मामयं वृथैव हनिष्यतीति नोटेजितव्यम् । प्रवृद्धादेराकतिगणत्वादुत्तरपदान्तोदातत्वम् । 'परेरभितोभावि मण्डलम् ' इति वा । ' अथो यथा वस्यसे '' इत्यादि ब्राह्मणम् ॥ 'दर्भस्तम्बमुन्मार्टि-वर्षवृद्धमसीति ॥ वर्षेण वर्धितमसि । पूर्ववण्णिलुक् । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । वर्षशब्द उञ्छादित्वादन्तोदात्तः ॥ - असिदादिना बर्हिस्संश्लेषयति-देवबहिरिति ॥ देवानां बर्हिः तल्पभूतम् । षाष्ठिकं 'आमन्त्रितस्य' इत्याद्युदात्तत्वम् । प्रत्ययलक्षणं तत्र नास्तीति चेत् । सोः व्यत्ययेन 'हल्याभ्यः' इति लोपः करिष्यते । अन्वक् पर्वणोधस्तात् । तिर्यक् तिरश्चीनम् । यत्र क्वापि एवं त्वा माच्छिदम् । 'अहिंसायै'। इति ब्राह्मणदर्शनात् , 'आच्छेत्ता' इति वक्ष्यमाणत्वाच्च माशब्देन छेदनं निषिध्यते इति वेदितव्यम् । कस्मात्पुनरन्वक् छेदादि वर्ग्यत इत्याह-पर्वत्यादि । ते तव खलु पर्व प्ररोहस्थानं राध्यासं पुनरपि प्ररोहार्थ अविनष्टं स्थापयामीतीयमाशीः ॥ *ख-नोद्विजितव्यम्. वा. ३-२-२. ख-नास्तीति वचनव्यत्ययेन. [स्वमोर्नपुंसकादिति लुका लुप्तत्वेन आमन्त्रितविभ क्तयन्तत्वं न संभवतीति भावः.] For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy