SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -10 तैत्तिरीयसंहिता . [का १. प्र. १. 'यज्ञस्य॑ घोषसि प्रत्युष्ट५ रक्षः प्रत्युष्टा पाहि रक्ष । 'तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तं मड्विडोः' इति लसार्वधातुकानुदात्तत्वे यजमाने धातुस्वरः । ' तस्मात्सायं पशवः '* इत्यादि ब्राह्मणम् ॥ इति प्रथमोनुवाकः. 'अश्वपशुमसिदं वाभिमन्त्रयते—यज्ञस्येति ॥ ' चतुर्थ्यर्थे बहुळं छन्दसि' इति तादर्थे पठी । घुषेय॑न्ताच्छतरि 'छन्दस्युभयथा' इति शप आर्धधातुकत्वागिणलोपः । 'अदुपदेशात्' इति शतुरनुदात्तत्वम् । उदात्तनिवृत्तिस्वरेण शप उदात्तत्वम् । असिदाश्वपर्योः वस्तुत्वन विवक्षितत्वान्नपुंसकत्वम् । लिङ्गव्यत्ययो वा । बहिर्लवनहारेण मयैव शीघ्रं यज्ञं सम्पादयस्वति यज्ञार्थमाघोषयत्। असीति स्तुतिः । घोषदिति धननामेति के चित् ।। __ गार्हपत्ये प्रतितपति-प्रत्युष्टमिति ॥ केचित्तु–'प्रत्युष्टा अरातयः' इति गायत्र्येकपदा यजुरादिकेत्याहुः । रक्षेरसुनि अर्थविपर्यासः । 'क्षरमूर्छने' इत्यस्य वर्णविपर्यासो वा । यदत्र छिद्रान्वेषि रक्षस्तदनेन प्रतितपनेन प्रत्युष्टं प्रतिमुखीकृत्य दग्धमस्तु । उष दाहे । 'आदितश्च ' इति चकारादाश्वस्तादिवदिटप्रतिषेधः । 'गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् । किञ्च, अरातयोपि प्रत्युष्टास्सन्तु । रातयो धनस्य दातारस्सुहृदः । ‘कृत्यल्युटो बहु *बा. ३-२-१. क-आघोषयन्निति वा. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy