SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www kabatirth.org Acharya Shri Kalassagarsun Gyanmandir पूवनेन लड्नेन च ये गम्यन्ते । प्लवेन उडुपेन ये गम्यन्ते । तान् द्वीपान् । सप्तराज्योपशोभितम् सप्तखण्डोपशोभितम् । यवद्वीपं च गच्छत । तं यव । दीपमतिक्रम्य यः शिशिरो नाम पर्वतः शृङ्गेण दिवं स्पृशति तं गच्छत । एतेषां द्वीपादीनां गिरिदुर्गेषु वनेषु च । प्रपातेषु निर्झरेषु च। रामपत्नी मार्गध्व मिति संबन्धः। यवद्वीपसुवर्णरूप्यकावपि लङ्कादीपवत समुद्रान्तवर्तिनौ द्वीपविशेषौ।।२९-३१॥ एवं जम्बूद्वीपं लवणसमुद्रं चोक्त्वा प्लक्षद्वीपप्रदेशानाह ततो रक्तजलं शोणमगाधं शीघ्रगामिनम् । गत्वा पारं समुद्रस्य सिद्धचारणसेवितम् ॥ ३२॥ तस्य तीर्थेषु रम्येषु विचित्रेषु वनेषु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ३३॥ पर्वतप्रभवा नद्यः सुरम्या बहुनिष्कुटाः । मार्गितव्या दरीमन्तः पर्वताश्च वनानि च ॥ ३४ ॥ ततः समुद्रद्वीपांश्च सुभीमान् द्रष्टुमर्हथ ॥ ३५॥ ऊर्मि मन्तं समुद्रं च क्रोशन्तमनिलोद्धतम् ॥ ३६॥ तत्रासुरा महाकायाश्छायां गृह्णन्ति नित्यशः । ब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः ॥३७॥ तं कालमेघप्रतिम महोरगनिषेवितम् । अभिगम्य महानादं तीर्थेनैव महोदधिम् ॥३८॥ तत इत्यादिना । समुद्रस्यं पारं लवणसमुद्रापरपारस्थम् । रक्तजलम् अगाधं शीघ्रगामिनं सिद्धचारणसेवितम् । शोणं शोणाख्यं नदं गत्वा । तस्य तीर्थेषु | अवतारेषु वनेषु च वेदेह्या सह रावणो मार्गितव्यः । केवलं रावणं केवलं सीतां च दृष्ट्वा नागन्तव्यम्, रावणहननाय सीतानयनाय च उभावपि दृष्ट्वा आगन्तव्यमिति भावः ॥ ३२ ॥ ३३ ॥ प्लसदीपपर्वतादीनाह-पर्वतेति । निष्कुटा उद्यानविशेषाः ॥३४॥ अयेक्षुसमुद्रदीपानाह-तत इति ॥ ३५॥ इक्षुसमुद्रविशेष वक्तुमाह-ऊर्मिमन्तमित्यर्धम् । ऊर्मिमन्तं समुद्रम् , इक्षुसमुद्रमित्यर्थः । अभिगच्छतेति शेषः । " लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः | समम्" इति समुद्रकमः॥ ३६ ॥ इक्षुसमुद्रस्य दुर्गमत्वं दर्शयति-तत्रेति । तत्र इक्षुसमुद्रे ॥ ३७॥ तमिति । तीर्थेनाभिगम्य उपायेनाभिगम्य ।। अस्तीति शेषः । सप्तराज्योपशोभितं सुवर्णरूप्यकं च यवद्वीपं चातिक्रम्य यः शिशिरो नाम पर्वतः शृङ्गेम दिवं स्पृशति । एतेषां गिरिदुर्गेषु वनेषु च रामपत्नी मार्गध्वमिति सम्बन्धः । यवद्वीपसुवर्णरूप्यकावपि लङ्काद्वीपादिवत्समुद्रान्तर्वतिद्वीपविशेषौ ॥ २९-३२ ॥ तत इत्यादिना पर्वतांश्च बनानि च इत्यन्तेन प्रक्षद्वीप प्रदेशा उच्यन्ते । समुद्रस्य पारं लवणसमुद्रपारस्थम् । रक्तजलमगाधम् । शीघ्रगामिनं सिद्धचारणसेवितं शोणं शोणाख्यं नदं गत्वा तस्य तीर्येषु अवतरणप्रदेशेषु वनेषु च वैदेह्या सह रावणो मागिंतव्य इति सम्बन्धः । ततो नित्यजलं भीममिति पाठे नित्यजलमिति तदस्य संज्ञा ॥ ३२-३४ ॥ समुद्रद्वीपान इक्षुसमुद्रस्थित द्वीपान ॥ ३५ ॥ ऊर्मिमन्तम् इक्षुसमुद्रम् । तत्र इक्षुसमुद्रे ॥ ३६ ॥ ३७ ॥ तम् इक्षुसमुद्रम् । तीर्थेन उपायेनाधिगम्प । “तीर्थ मन्त्रायुपाये च" इति निघण्टुः। For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy