________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
स०४०
वा.रा.भू. देशविशेषाः। मागधान् मगधदेशान् । महायामान महायामयुक्तान् । कोशकाराणां राजविशेषाणाम् ॥२१-२३॥ समुद्रमित्यादि । समुद्रम् अवगाढान्टी .कि.का. ॥११५॥
प्रविष्टान् पर्वतान् । मन्दरस्य आयतां कोटिं च संश्रिताः ये कर्णप्रावरणादयः एतेषामालयाः सर्वे विचेया इति संबन्धः । काननौकस इति संबोधनम् ।
सर्वमेतद्रिचेतव्यं मार्गयद्भिस्ततस्ततः। रामस्य दयितां भार्या सीतां दशरथस्नुषाम्॥२३॥समुद्रमवगाढांश्च पर्वतान पत्तनानि च । मन्दरस्य च ये कोटि संश्रिताः केचिदायताम् ॥ २४ ॥ कर्णप्रावरणाश्चैव तथा चाप्योष्टकर्णकाः। घोरलोहमुखाश्चैव जवनाश्चैकपादकाः ॥ २५ ॥ अक्षया बलवन्तश्च पुरुषाः पुरुषादकाः । किराताः कर्णचूडाश्च हेमाङ्गाः प्रियदर्शनाः ॥ २६ ॥ आममीनाशनास्तत्र किराता द्वीपवासिनः । अन्तर्जलचरा घोरा नरव्याघ्रा इति श्रुताः ॥२७॥ एतेषामालयाः सर्वे विचेयाः काननौकसः॥२८॥ गिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च ।रत्न वन्तं यवदीपं सप्तराज्योपशोभितम् ॥२९॥ सुवर्णरूप्यकं चैव सुवर्णाकरमाण्डितम् । यवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः ॥ ३० ॥ दिवं स्पृशति शृङ्गेण देवदानवसेवितः । एतेषां गिरिदुर्गेषु प्रपातेषु वनेषु च । मार्गध्वं
सहिताः सर्वे रामपत्नी यशस्विनीम् ॥ ३१ ॥ कर्णप्रावरणाः आच्छादितकर्णाः । निष्कर्णा इत्यर्थः । ओष्ठे कर्णी येषां ते ओष्ठकर्णकाः। लोहमुखाः लोहतुल्यमुखाः । कर्णेषु चूडा येषां ते कर्णचूडाः। आममीनाशना इति पूर्वोक्तकिराता व्यावर्त्यन्ते । द्वीपवासिनः द्वीपान्तरेपि वसन्तो मन्दरेपि वसन्तीत्यर्थः । नरव्याघ्राः अर्धनररूपा व्याघ्ररूपाश्चेत्यर्थः J॥२४-२८॥ एवं जम्बूद्वीपान्वेषणं विधाय द्वीपान्तरान्वेषणं विधत्ते-गिरिभिरित्यादि रामपत्नी यशस्विनीमित्यन्तमेकं वाक्यम् । ये द्वीपाः गिरिभिर्गम्यन्ते।। समुद्रमवगाहान् प्रविष्टान् पर्वतान् । पट्टणानि वनानि मन्दरस्य कोटिं च ये संश्रिताः एतेषामालयाः सर्वे विचेतव्या इति सम्बन्धः । काननौकस इति सम्बोधनम्।।
कामरूपिण इति च पाठः । नरव्याघ्राःनराशते व्याघ्राश्च, नररूपा व्याघ्ररूपा इत्यर्थः। कर्णमेव प्रावरणं येषां ते कर्णप्रावरणाः। पर्णचोलाच इति पाठः। पर्णचोलाः पर्णकृत ॥१५॥ चकचकाः । आममीनाशनाः अपकमत्स्याशनाः । किराता अल्पतनवः । “स्यात् किरातस्तु भूनिम्वे म्लेच्छे चाल्पतनावपि" इति विश्वः ।। २४-२८ ॥ गिरिभियेच
गम्यन्ते इत्यारभ्य रामपत्नी यशस्विनीमित्यन्तमेकं वाक्यम् । पवनेन लङ्घनेन च ये गम्यन्ते, प्लवेन उडुपेन च ये गम्यन्ते । यबद्वीपं यवकोटिपर्युपलक्षितद्वीपम्,
For Private And Personal Use Only