________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
चा.रा.भू.
"तीर्थ मन्त्राद्युपाध्यायशानेष्वम्भसि पावने । पात्रोपायावतरणेषु” इति वैजयन्ती । छायाग्राहिपरिहारेण गन्तव्यमित्यर्थः । यद्वा तीर्थनावतरणेन टी.कि.का. गन्तव्यं नान्येन । तेन छायाग्राहिपरिहारो भविष्यतीति भावः । ततो गताः इश्वसमुद्रान्निर्गताः । तां कूटशाल्मली लोहितं नाम सागरं मधुसमुद्रस०४० च द्रक्ष्यथ । गृहं चेति । तत्र शाल्मलिद्वीपे ॥३८-४०॥ तत्र मधुसमुद्रे । सूर्यस्योदयनं प्रतीत्यतः परं निहता इत्यर्धम् । ततः परम्
ततो रक्तजलं भीमं लोहितं नाम सागरम् । गता द्रक्ष्यथ तां चैव बृहती कूटशाल्मलीम् ॥ ३९ ॥ गृहं च वैनतेयस्य नानारत्नविभूषितम् । तत्र कैलाससंकाशं विहितं विश्वकर्मणा ॥ ४० ॥ तत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः। शैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः ॥४१॥ ते पतन्ति जले नित्यं मूर्यस्योदयनं प्रति। निहता ब्रह्मतेजोभिरहन्यहनि राक्षसाः । अभितप्ताश्च सूर्येण लम्बन्ते स्म पुनः पुनः ॥ ४२ ॥ ततः पाण्डरमेघाभं क्षीरोदं नाम सागरम् । गता द्रक्ष्यथ दुर्धर्षा मुक्ताहारमिवोर्मिभिः॥ ४३ ॥ तस्य मध्ये महान् श्वेत
ऋषभो नाम पर्वतः । दिव्यगन्धैः कुसुमितै राजतैश्च नगैर्वृतः ॥ ४४ ॥ अभितप्ताश्चेत्यर्धम् । लम्बन्ते वर्तन्त इत्यर्थः । ब्रह्मतेजोभिः गायत्रीप्रभावैः॥४१॥४२॥ ततः पाण्डरेति । अत्र मधुसमुद्रानन्तरं सर्पिर्दघि समुद्रयोः कुशकोञ्चदीपयोश्च वक्तव्यत्वेऽपि तान् विहाय क्षीरोदप्राप्त्यभिधानं तदुभयप्राप्तिमन्तरेण क्षीरोदप्राप्तेरसंभवात् । अतः अनुक्तावपि ता| तावेव समुद्रौद्वीपो चेति बोध्यम् । यद्वा लवणसमुद्रं तन्मध्यद्वीपांश्चोक्त्वा प्लक्षदीपशाल्मलिद्वीपकुशद्वीपक्रौञ्चदीपान् इक्षुसुरासर्पिदधिसमुद्रांश्च तन्त्रण दर्शयति "ततः समुद्रदीपांश्च सुभीमान् द्रष्टुमर्हथ" इति । ततः 'ऊर्मिमन्तम् ' इत्यादिना इक्षुसमुद्रस्य विशेषणमुक्त्वा ततो रक्तजलम् । Vइत्यादिना सुरासमुद्रस्य स्वरूपमुक्त्वा ततः शाल्मलिदीपवृत्तान्तं प्रदर्य अन्यत्र विशेषाभावात् क्षीरसमुद्रगमनं निर्दिशति-ततः पाण्डरमेघाभा मित्यादिना । ऊर्मिभिर्मुक्ताहारं मुक्ताहारयुक्तमिव स्थितम् ॥ ४३ ॥४४॥
११६॥ लउपायेन गमनं नाम छायाग्राहिपरिहारेण गमनम् ॥ ३८ ॥ ततो गताः ततः इक्षुसमुद्राङ्गताः निर्गताः। तो कूटशाल्मलि लोहितं नाम सागरं मधुसमुद्रं च द्रक्ष्ययोति
सम्बन्धः ॥ ३९ ॥ तत्र शाल्मालद्वीपे ॥ ४० ॥ तत्र मधुसमुद्रे ॥ ४१ ॥ निहता इति । ब्रह्मतेजोमिः गायत्रीप्रभावैः ॥ टी-समतेजोनिर्गायत्रीप्रभावः । अत्र " रक्षासि हवा परोऽनुवाके " इत्यनुवाकार्थोऽनुसन्धेयः ॥ ४२ ॥ ततः पाण्डरमेघाभं क्षीरोदं नाम सागरम् इति । 'लवणेक्षुसुरासर्पिर्दधिदुग्धजलैस्समम्' इत्युक्तप्रक्रियया मधुसमुद्रानन्तरं
For Private And Personal Use Only