________________
Shri Mahavir Jan Aradhana Kendra
www kabith org
Acharya Shri Kalassagarsun Gyanmandir
दा.रा.भ. १६३॥
अभयदः ॥ ९-११॥ सुषेणेति । अर्थसूक्ष्मविनिश्चये सूक्ष्मार्थविनिश्चये । औत्पातिक उत्पातविपयज्ञान च । परिनिष्ठिता सनातनिष्ठा । समथेति Mटी.के.को. यावत् ॥ १२ ॥ यदिति । न परिवर्तते न भवतीत्यर्थः ॥१३॥ राघवस्य चेति । विमानितः, राघव इति शेपः ॥१४॥ इमामिति । संप्रजह्यान्मृते मयि मृते। सति श्रीरिमां काञ्चनी मालां संप्रजह्यात् । ततः पूर्वमेव मयि जीवति गृहाणेति भावः ॥ १५॥ रामानु-संघजह्याः संप्रजाहि । शनिति शेषः ॥ १५ ॥ इतीति ।।
सुषेणदुहिता चेयमर्थसूक्ष्मविनिश्चये। औत्पातिके च विविधे सर्वतः परिनिष्ठिता ॥ १२॥ यदेषा साध्विति ब्रूयात कार्य तन्मुक्तसंशयम् । नहि तारामतं किंचिदन्यथा परिवर्तते ॥ १३॥ राघवस्य च ते कार्य कर्तव्यमविशङ्कया। स्याधर्मो ह्यकरणे त्वां च हिंस्याद्विमानितः ॥ १४ ॥ इमां च मालामाधत्स्व दिव्यां सुग्रीव काञ्चनीम् । उदारा श्रीः स्थिता ह्यस्यां संप्रजह्यान्मृते मयि ॥ १५॥ इत्येवमुक्तः सुग्रीवो वालिना भ्रातृसौदात् । हर्ष त्यक्त्वा पुनर्दीनो ग्रहग्रस्त इवोडुराट् ॥१६॥ तद्वालिवचनाच्छान्तः कुर्वन्युक्तमतन्द्रितः। जग्राह सोऽभ्यनुज्ञातो माला तां चैव काञ्चनीम् ॥१७॥ तां माला काञ्चनीं दत्त्वा वाली दृष्ट्वाऽऽत्मजं स्थितम् । संसिद्धः प्रेत्यभावाय स्नेहादङ्गदमब्रवीत्
॥ १८ ॥ देशकाली भजस्वाद्य क्षममाणः प्रियाप्रिये । सुखदुःखसहः काले सुग्रीववशगो भव ॥ १९॥ दीनः अभूदिति शेपः । ग्रहग्रस्तः राहुग्रस्तः ॥१६॥ तदिति । तत्तदनन्तरम् । शान्तः त्यक्तवैरः ॥१७॥ तामिति । प्रेत्यभावाय मरणाय । संसिद्धः कृत निश्चयः ॥१८॥ अद्य मत्प्रयाणानन्तरम् । देशकालो भजस्व । गत्यर्था ज्ञानार्थाः । देशकालो जानीहि। अस्मिन् देशे अस्मिन् काले च एवं वर्तितव्यम् । सुषेणेति । अर्धसूक्ष्माविनिश्चये दुर्जयकार्यनिश्चय इत्यर्थः । औत्पातिके उत्पातोद्भवज्ञान इत्यर्थः । सर्वतः परिनिष्ठिता सर्वत्र चतुरेत्यर्थः ॥ टी०- ननु समुद्रसज्ञातायास्तारा यास्सुपेणदुहितृत्व कथमिति चेत् १ सत्र क्षीराब्धिमधनसमपोपन्नां तारां दृष्ट्वा सुषेणो वार्म करमग्रहीन बाली तु तान्या दक्षिण करमगृह्मान् । नदा अन्योन्य विवाद सति देवः सुषेणदुहितुत्वं तारायाः वालिनो| जायात्वं च निश्चितम् । तदुक्तं स्कान्दे-"देवः सुषेणकलहे पुत्रौति प्रतिपादिता । सुषेणो दुहितुस्तस्याः स्वयंरमक पयत् । इत्थमृदा कपीन्द्रेग तारा सर्वाङ्गसुन्दरी । सुग्रीवमेकदा रात्री रूपसादृश्यमोहिता ।। प्रार्थयामास कामार्ता स्त रतिक्ती प्रभुम् । न मपाऽयोनिजाताया गमन लोकगार्हतम् ॥ " इनि || अत पुत्र यदेवेति ॥ १२-१५॥ इत्येवमिति । दीनः अभूदिति शेषः ॥ १५ ॥ तदिति तत् तदनन्तरम् । शान्तः त्यक्तवैरः ॥ १७ ॥ प्रेत्यभावाय संसिद्धः निश्चिनमरण इत्यर्थः॥ १८॥ प्रियाप्रियो अनुकूलप्रतिकूलण्यापारी ॥१९॥२०॥
For Private And Personal Use Only