SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagarsun Gyarmandir मोहेन बलात्कृष्यमाणं मां गन्तुमर्हसि ॥ ३॥ युगपदिति । आवयोः प्रात्रोः भ्रातृयुक्त भ्रातृत्वप्रयुक्तम् । सौहार्द सुखं राज्यसुखं च । एतदुभयं देवेन । युगपन्न विहितम् । मन्ये ध्रुवम् । अव्ययमेतत् । तदिदं देवकृतं युगपदविधानम् । अन्यथा न हि अन्यप्रकारं न भवति हि ॥ ४॥ प्रतीति । प्रतिपद्य, पालयेति शेषः । यद्धा प्रतिपद्य प्राप्नुहि । इयन्नन्तोऽयम् । वैवस्वतक्षयं यमगृहम् ॥५॥जीवितमिति । अहितं यशः केनाप्यवध्यो वालीति प्रसिद्ध युगपद्विहितं तात न मन्ये सुखमावयोः ।सौहार्द भ्रातृयुक्तं हि तदिदं तात नान्यथा ॥ ४ ॥ प्रतिपद्य त्वमद्यैव राज्यमेषां वनौकसाम् । मामप्यथैव गच्छन्तं विद्धि वैवस्वतक्षयम् ॥५॥ जीवितं च हि राज्यं च श्रियं च विपुला मिमाम् । प्रजहाम्येष वैतूर्णं महच्चागर्हितं यशः ॥६॥ अस्यां त्वहमवस्थायां वीर वक्ष्यामि यद्वचः । यद्यप्यसुकरं राजन् कर्तुमेव तदर्हसि ॥ ७॥ सुखार्ह सुखसंवृद्धं बालमेनमबालिशम्। बाष्पपूर्णमुखं पश्य भूमौ पतितमङ्गदम् । मम प्राणैः प्रियतरं पुत्रं पुत्रमिवौरसम्॥८॥ मया हीनमहीनार्थ सर्वतः परिपालय । त्वमेवास्य हि दाता च परित्राता च सर्वतः । भयेष्वभयदश्चैव यथाऽहं प्लवगेश्वर ॥ ९॥ एष तारात्मजः श्रीमांस्त्वया तुल्यपराक्रमः। रक्षसां तु वधे तेषामग्रतस्ते भविष्यति ॥१०॥अनुरूपाणि कर्माणि विक्रम्य बलवान रणे । करिष्यत्येष तारेय स्तरस्वी तरुणोऽङ्गदः ॥११॥ प्रायशः॥६॥ अस्यामवस्थायां चरमावस्थायां यद्चो वक्ष्यामि एतयद्यप्यसुकरं तथाप्यवश्यं कर्तुमर्हसि । मदुक्तरीत्या राजा भवेत्यर्थः ॥ ७॥ सुखाई। मिति । वयसा बालमप्यबालिश बालबुद्धिरहितम् ॥ ममेति । प्राणः प्राणेभ्यः । मम पुत्रं त्वम् औरसम् पुत्रमिव पश्येति संबन्धः ॥ ८॥ मयेत्यादि । अस्य अङ्गदस्य दाता, वस्त्राभरणादीनामिति शेषः । सर्वतः शत्रुभ्यः परित्राता । भयेष्वभयदः शत्रुपुत्रत्वेन स्थानानिष्कासनादिभयहेतुषु विषये बुद्धिमोहेन बलात्कृष्यमाणं मां ज्ञातुमर्हसीति सम्बन्धः ॥ ३ ॥ मन्य इत्येतदव्ययम् । यः आवयोः भ्रातृसौहार्द भ्रातृत्वप्रयुक्तं सुखं राज्यसुखं च तदुभयं देवेन युगपन्न विहितं मन्ये ध्रुवम्, तदिदं देवकृतं युगपदविधानम् अन्यथा नहि अन्यप्रकारं न भवति हीति ॥ ४ ॥ ५ ॥ जीवित मिति । अगर्हितं यशः वाली केनाप्य वध्योऽप्रधृप्यश्चेति प्रसिद्धं यशः॥६॥७॥ टी-अबालिशं विवेकिनम् । प्राणः प्राणेन्यः ॥ ८॥ सर्वतः सर्वेपर्येषु । अहीनार्थ परिपायक पूर्णकाम कुवित्यर्थः ॥ ९-११॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy