SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir गृह्यतामिति अयमिति शेषः ॥ १९ ॥ तयोः रामलक्ष्मणयोः । अपाये अपगमे सति शून्ये प्रदेशे। निराबाधः अप्रतिबन्धः ॥२०॥ विश्रब्धः निश्शक अन्तरात्मना अन्तस्स्थधैर्येण ॥२१॥ सः मारीचः रामकथां श्रुत्वा परित्रस्तो बभूव । तेन त्रासेन तस्य वर्क शुष्कं समभवदित्यन्वयः ॥२२॥ भयकार्या न्तरमाह-ओष्ठाविति।शुष्की ओष्ठौ परिलिहन् सः । अनिमिषैः निमेषरहितैः नेत्रैः नेत्रव्यापारैः ।मृतभूत इव मृतजन्तुरिवातःसन् रावणं समुदैवत॥२३॥ त्वां तु निस्संशयं सीता दृष्ट्वा तु मृगरूपिणम् । गृह्यतामिति भर्तारं लक्ष्मणं चाभिधास्यति ॥ १९॥ ततस्तयोरपाये तु शून्ये सीतां यथासुखम् । निराबाधो हरिष्यामि राहुश्चन्द्रप्रभामिव ॥२०॥ ततः पश्चात्सुखं रामे भार्याहरण कर्शिते । विश्रब्धः प्रहरिष्यामि कृतार्थेनान्तरात्मना ॥२॥ तस्य रामकथा श्रुत्वा मारीचस्य महात्मनः । शुष्क समभवद्भक्त्रं परित्रस्तो बभूव सः ॥ २२॥ ओष्ठौ परिलिहन शुष्की नेत्रैरनिमिषरिव । मृतभूत इवार्तस्तु रावणं समुदैक्षत ॥२३॥ स रावणं त्रस्तविषण्णचेता महावने रामपराक्रमज्ञः। कृताञ्जलिस्तत्त्वमुवाच वाक्यं हितं च तस्मै हितमात्मनश्च ॥ २४ ॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षट्त्रिंशः सर्गः ॥३६॥ उत्तरसर्गार्थ संगृह्णाति-स इति । वस्तविषण्णचेताः भीतदुःखितमनाः । तत्र हेतुः रामपराकमज्ञ इति । पूर्व दण्डकारण्ये यो रामपराक्रम आसीत् तज्ज्ञ इत्यर्थः । तस्मै रावणाय । हितम् अनपायम् । “हितयोगे च" इति वार्तिकेन चतुर्थी ॥ २४ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणे रत्न मिखलाख्याने आरण्यकाण्डव्याख्याने पटत्रिंशः सर्गः ॥३६॥ प्रकृते कार्यसाहाय्ये यत्कार्य यत्कर्तव्यं तन्मे वचनात शुण्विति सम्बन्धः ॥ १७-१९ ॥ तयोरपाये अपगमे सति शून्ये इत्यत्राश्रम इत्यनुपज्यते । निराबाधा प्रतिबन्धरहितः ॥ २० ॥ तत इति प्रातीतिकोर्थः स्पष्टः । वस्तुतस्तु-रामे भार्याहरणकर्शिते राम एवेमा रामेभस्य आर्या सीता तस्याः आहरणम् तेन हेतुना कर्शिते नाशिते सति रामेण मच्छरीर इति शेषः । ततः कृतार्थेनान्तरात्मना उपलक्षितस्सन पश्चाद्विसन्धं निष्कलई सुखं परमानन्दसुखं मोक्षमिति यावत् । प्रहरिप्यामि प्रकर्षेणाहरिष्यामि, प्राप्स्यामीत्यर्थः । इदमात्मगतम् ॥ २१ ॥ रामकथा श्रुत्वा मारीचः परित्रस्तो बभूव तेन परित्रासेन तस्य वक्र शुष्कं समभवदिति। तासम्बन्धः ॥ २२॥ ने नेत्रव्यापारे। मूलभूत इख मूतसहशः ॥ टीका-नेत्रः नेत्रज्यापरिः । अन्यथा बहरचनायोगात् ॥ २६॥ अस्तविषण्णचेताः प्रस्तः विषण्णचेताः खिन्न मानससञ्चारो यस्य । कुतः रामपराक्रमज्ञः ॥ २४ ॥ इति श्रीमहेश्वरतीर्थकृतायां श्रीरामायणतत्वदीपिकारूयायामारण्यकाण्डव्याख्यायां पशिः सर्गः ॥ ३६॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy