SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir ॥ ८९ ॥ चा.रा.भू. गाम्भीर्य विवक्ष्यते । व्यापारितं सन्धानमोक्षणव्यापारविशिष्टं कृतम् । सङ्घये युद्धे । “युद्धमायोधनम्" इत्यारभ्य "नृधमास्कन्दनं सङ्खयम्” इत्यमरः ॥ ७-१० ॥ कर्कशः कठिनहृदयः ॥ ११ ॥ सवं बलं केवलमाश्रित्य नतु धर्ममित्यर्थः । " सत्वं बलं च जन्तौ च " इति विश्वः । आनयिष्यामि दुःशीलः कर्कशस्तीक्ष्णो मूर्खो लुब्धोऽजितेन्द्रियः । त्यक्तधर्मो ह्यधर्मात्मा भूतानामहिते रतः ॥ ११ ॥ येन वैरं विनारण्ये सत्त्वमाश्रित्य केवलम् । कर्णनासापहरणाद्भगिनी मे विरूपिता ॥ १२ ॥ तस्य भार्यौ जनस्थानात् सीतां सुरसुतोपमाम् । आनयिष्यामि विक्रम्य सहायस्तत्र मे भव ॥ १३ ॥ त्वया ह्यहं सहायेन पार्श्वस्थेन महाबल । भ्रातृभिश्च सुरान् युद्धे समग्रान्नाभिचिन्तये ॥ १४ ॥ तत्सहायो भव त्वं मे समर्थो ह्यसि राक्षस । वीर्ये युद्धे च दर्पे च नास्ति सदृशस्तव ॥ १५ ॥ उपायज्ञो महान शूरः सर्वमायाविशारदः । एतदर्थमहं प्राप्तस्त्वत्समीपं निशाचर ॥ १६ ॥ शृणु तत् कर्म साहाय्ये यत्कार्यं वचनान्मम ॥ १७ ॥ सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः । आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ॥ १८ ॥ आनेष्यामि । इडार्षः || १२ || १३ || भ्रातृभिः कुम्भकर्णादिभिः । समग्रान् सम्पूर्णान् । नाभिचिन्तये न गणयामि ॥। १४ - १६ ॥ शृणु तत् कर्मेत्यत्र तदिति भिन्नं पदम् । प्रकृते कार्यसाहाय्ये यत्कर्म कार्य कर्तव्यं तन्मम वाचनाच्चाविति सम्बन्धः ॥ १७ ॥ प्रमुखे अग्रे ॥ १८ ॥ कुद्धेन पित्रा निरस्तः निष्कासितः किम् ? किन्तु कैकेयीवरदानसमये हि तेन पित्रा प्रार्थिनः सन् वनमागतस्सभार्यः सभायामार्यः सभ्यः क्षीणजीवितः किम् ? किन्तु तस्य खरस्य सैन्यस्य संहर्ता । कुतः क्षत्रियपांसनः क्षत्रियानं पातीति क्षत्रियपः सचासावसनश्च शत्रुनाशकः। " अंस समावाते " इति धातुः । अत एव अशीलः किम् किन्तु सद्वृत्तः तथापि कर्कशः कठिनः शत्रुविषय इति शेषः । तीक्ष्णः क्रौर्येप्यनलसः अत एव अमूर्खः अलुब्धः जितेन्द्रिय इति छेद्रः । त्यक्त धर्मः त्यक्ता विरुद्धा धर्मा येनेति मध्यमपदलोपिसमासः । अत एवाधर्मात्मा किम् ? किन्तु धार्मिकएव अत एव भूतानामहिने रतः सर्वभूतदयापर इत्यर्थः ॥ १०॥११॥ टीका-येनेति । सच्च बलम् आश्रित्य प्राप्य ॥ १२ ॥ तस्य भार्यामिति यथाश्रुतार्थः स्पष्टः । वस्तुतस्तु सनत्कुमारवचनाद्विष्णुरूप श्रीरामाद्वधं प्राप्य तत्पदं प्राप्तुं तस्य भार्यामानयिष्यामि न तु द्रोहबुद्धयेति भावः ॥ १३ ॥ त्वया भ्रातृभिश्च सहायभूतैर्नाभिचिन्तये न गणयामि । समग्रान् सर्वान् सुरान् ॥ १४-१६ ॥ तदिति भिन्नं पदम् । For Private And Personal Use Only डी.आ.की. स० ३६ ॥ ८९ ॥
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy