________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भ. इति स्तुतिप्रसन्ननत्रता प्रकाशयति । सुकुमारी पुण्डरीकविशालाक्षाविति नयनपुष्पवाणवत्त्वमुक्तम् । अरविन्दस्य मदनबाणत्वात् तेन शूर्पणखामनोदारकलं व्यज्यते टी.आ.की. ॥ ५३॥ चीरकृष्णाजिनाम्बरौ आभरणरहितावेव मां मन्मथपीडितां कता व्यषयतः " इयमाधकमनोज्ञा वल्कलेनापि" इत्युक्तं हि कालिदासेन । अतश्वीरकष्णाजिनधारणेन
तयोः सौन्दर्यं न्यूनतां नैति, किंतु तत्तारुण्यादिगुणसमुदापराजितमिदं चीरं रामशरीरसन्निकर्षेण सर्वस्पापि हृदयाकर्षक सत् “रूपसंहननं लक्ष्मी सौकुमार्पस सुवेषताम् । दहशुर्विस्मिताकारा रामस्प पनवासिनः।" इति स्वरुपध्यानपराणामिदमेव हृदयग्राहकं भवति। द्वितीययोजनायाम्-तरुणी "कनपोडशवर्षः । न युद्धयोग्य तामस्य पश्यामि" इत्याद्युक्तरीत्या युद्धायोग्यौ । यद्वा विषयप्रवणौ नतु युदभवणौ । रूपसम्पन्नौ "कन्या कामयते खपम् " इति रूपेण वनिताजनानुरागजनक सौन्दर्यवन्तौ नतु पौरुपज्ञापकपराक्रमसम्पन्नौ । केवलमाकारसुन्दरौ नत्वन्तस्सारवन्तौ । अत्र गुः सुकुमारौ । श्रीमत्कुमारतया श्रमासहनौ भवदीयरक्तलोचन । निरीक्षणासही अत्युमभवदायुधनिपातं कथं सहेताम् । महावलौ अत्यन्ताबलौ । स्त्रीनिमित्त राज्यत्यागेन तयोर्वलं हमेव । यहा महती रक्षणीया अबला पाययोस्तो प्रतिबन्धकीभूता अबला चास्तीत्यर्थः । पुण्डरीकविशालाक्षी भाषिकार्यापरिज्ञानेन कर्णनासच्छेदः कतः, इतःपरं किं भविष्यतीति भयेन निनिमेषेण प्रफुल
निची देन्येन शीतापमाननेत्री वा । स्वस्थानसामध्यपि जलादपनीतपुण्डरीकवदन्यत्रासामर्थ्य लोचनेन प्रकाशितम् । स्वयमशक्तत्वप्पैश्वर्यादिसम्पनी प्रबली भवतःIM घसा च नेत्याह चीरकृष्णाजिनाम्बरौ । ववाभावेन दारुचर्म मृगचर्म च वसानौ, अतो द्रष्यसाध्यसेनासम्पादनं कथमित्यर्थः । यहा आच्छादनमेकजातीयमपि न ।
किंतु स्थावरेणैकं दस जगन्मेनेक दत्तमिति । तृतीययोजनायां तु-तरुणौ ऊनपोडशवर्ष इत्युक्तरीत्या अनतिबालावनतिवृद्धौ च"चौबने विजिगीषूणाम्" इतिवद युद्धेन हस्तकण्डूनिरसनं कर्तुमिच्छन्ती । खपसंपन्नौ वीररसाभिव्यञ्जकसंहननविरोपी “ सिंहोरस्कं महाबाहुम्" इतिवद सनिदेशदर्शनेन शत्रवः पलायन्ते । रूप्यतेऽनेनेति । व्युत्पत्त्या रूपशब्दोसाधारणनिरतिशयरूपविशेषवाची । 'नाविजित्य निवर्तते ' इति 'यशसश्चकभाजनम् ' इति च पाल्पादारस्य सुबाहुप्रतिनिरसनेनैतावत्पर्यन्तं सिद्धापदानौ । सुकुमारौ अनायासेन शत्रुनिरासकौ । पौरुषदर्शने हृदयवाहित्ववत् रूपसौकुमार्ययोरपि हृदयग्राहित्वम् । महापली "सदेवगन्धर्वमनुष्यपन्न जगत्सशैलं परिवर्तयाम्यहम्' 'सागरमेखलां । महीं दहति कोपेन"इत्याद्युक्तरीत्या प्रसिद्धबलयुक्ती। बलशम्देन बाहुबलं मनोपलमुपायबलं चोच्यते । पुण्डरीकविशालाक्षी मतिसङ्कर । वनसञ्चारेप्यम्लाननेत्रौ । एतेन युद्धे अश्रमाविति ज्ञायते, पुद्धादिकालेपि शत्रुष्वलक्ष्यबुद्ध्या नेत्रविकारादिरहितौ "प्रीतिविस्फुरितेक्षणम्" इतिवत् । शत्रुदर्शनेप्युत्तरोत्तर मुत्साहेनातिविस्तृतनेत्रौ । चीरकृष्णाजिनाम्बरौ सर्वदा युद्धसन्नाहसूचकवनबन्धादियुक्तौ । यहा मृगयाशीलतया तदुचितकृष्णाजिनदारुपटकञ्चुकधरौ 'सत्येन लोकान् जयति ' इत्युक्तरीत्या तदुचितवेषव्यापारवत्त्वं प्रसिद्धम् । महाबलावित्यनेन खरोक्तवीरालापाननाहत्य अमेयर समणिम् ॥१४॥ १५ ॥
For Private And Personal Use Only