________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
.
विमलनेत्री । अनेन शत्रुदर्शनकृतक्षोभराहित्यमुच्यते । चीरकृष्णाजिनाम्बरौ सदा बद्धवसनतया युद्धसन्नद्धावित्यर्थः । एवमुत्तरत्रापि योज्यम् ॥ १४ ॥ १५ ॥ | तनि०- एतत्पुत्रावेतन्नामकाविति वक्तव्ये सौन्दर्यवर्णनमस्या वैरूप्यप्राप्तावपि वैराग्योत्पत्त्यभावेन काममोहितत्वादवशा भ्रातुः सन्निधाववाच्यमपि हव्रतमेवाह । विषयाभि निवेशवन्तो ह्यनुकूलप्रतिकूलविचारमन्तरेण प्रथमं यन्मनसि लग्नं तदेवानुवदन्ति । यद्वा " सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वा " इतिवत् प्रथमं रूपो दाहरणम् । अथवा सुप्तप्रमत्तकुपितानां भावज्ञानं दृष्टमिति कुपितत्वाद्भावज्ञानं प्रकाशितम् । यद्वा एवं राक्षसावासवनप्रवेश विरूप करणाभ्यां तो बलिष्ठाविति मा भैषीः किंतु मृदुप्रकृतिकावित्युच्यते । यद्वा " युवा कुमारम् " इत्यादिवेदान्तसिद्धमर्थं राक्षस्याचष्टे । "व्यक्तमेष महायोगी" इति मन्दोदरीवत् । परत्वं खलु मुक्तवेयम्, स्नेहस्तु दशरथादिभिः कार्यः तदविशेषेण राक्षस्या जातं ज्ञानं स्नेहश्वेत्युभयं रघुनन्दनसौन्दर्यवैलक्षण्यमहिम्नेति ज्ञेयम् । ननु रूपसम्पदा प्रथमं तरुणत्वादिविशेषणविशिष्टे श्रीरामे भावानु बन्धः, लक्ष्मणे तु विरूपकरणाद् द्वेषः, उभयोः प्राधान्येन ग्रहणं कथमिति चेत् ? परस्परस्य सदृशाविति तारुण्यादिसामान्यात् रामप्रत्याख्याने लक्ष्मणेपि भावबन्धनाद्रामेणापि कर्णनासाच्छेदाभ्यनुज्ञानेन द्वेषसाम्याच्च न दोषः । ताभ्यामुभाभ्यामिमामवस्थां संप्राप्तेति वक्ष्यति । कथं युगपदेकस्या द्वयोर्भावबन्धो जातः । ज्येष्ठकनिष्ठभावानुसन्धानेपि न तारुण्यवैषम्यम्, तेनोभयत्रैकधा (दा) भावबन्धः तारुण्यैक्येपि रूपवैषम्ये अन्यथा भावबन्धः स्यात्तच्च नेत्याह रूपसंपन्नौ । लोके मन्मथादिभिः रूपापेक्षया यथा प्रार्थ नीयौ भवेतां तथा रूपसमृद्धी एतदङ्गप्रत्यङ्गसौष्टवलेशयाच्या खलु मदनी रूपवान् । “ रूपदाक्षिण्यसम्पन्नः प्रसूतः " इत्युक्तरीत्या उत्पत्तिसिद्धरूपसमृद्धौ नतु वयोपचितरूपसमृद्धौ । “ रामेति रामेति सदैव बुद्ध्या विचार्य वाचा ब्रुवती तमेव" इत्येतादृशातिव्यामोहजनकरूपसम्पन्नौ । सुकुमारौ आलिङ्गने काठिन्यरहितावयवौ पुष्पसमुदायालिङ्गन्नवत्, अतएव शिरीषपुष्पसाम्यम् । सौकुमार्यप्रयुक्तदौर्बल्यं परिहरति महाबलाविति । बलमनुभवसामर्थ्यम् । तेन " रामस्तु सीतया सार्धं विजहार बहूनृतून् " इत्युक्तरीत्या अनवरतकान्तानुभवसम्भवेपि बलहानिराहित्यमुक्तम् । एतेन राक्षसजातिप्रयुक्तकठिनप्रकृतियुक्ताया अपि स्वस्याः समरतिप्रदानसामर्थ्यमभि प्रेतम् । स्त्रीणां तु स्वानुभवविशेषैः पुरुषो जेतव्य इति मनोरथः, तमतिक्रम्य स्वबलाधिक्येन क्रीडायां स्त्रियं यो जयति स महाबलः । पुण्डरीकविशालाक्षौ अवयवानां सौन्दर्य समीपगमने सम्यक् प्रकाशते, नेत्रे तु दूरे स्फुटं प्रकाशेते । यद्वा पुण्डरीकं सिताम्भोजम् । अनेन सत्वगुणप्रचुरतया दृष्टिप्रसन्नतोच्यते नतु महापुरुषलक्षणोप युक्तरकान्तत्वं कनीनिकानैल्यं च निवार्यते । अथवा मनुष्यावतारेण परत्वगोपनेपि " कप्यासं पुण्डरीकाक्षम् " इत्युक्तपुण्डरीकाक्षत्वं प्रकाश्यत एव । किंच क्षीर समुद्रवत् नेत्रविशालत्यगाम्भीर्यं केनापि निश्चितुमशक्यं लोकरीत्या पुण्डरीकसाम्यमुक्तम् । वस्तुतस्तु “ अदीर्घमप्रेमदुधम् " इत्याद्युक्तरीत्या अनुपममेव । अपिच बद्धमुक्तनित्यात्मकत्रिविधकोट्युभयविभूतिमेकप्रयत्नेन कटाक्षयितुं विशालत्वम् । महाबलौ पुण्डरीकाक्षाविति बलं प्रदर्श्य भयं जनयित्वा " जितं ते पुण्डरीकाक्ष "
Acharya Shri Kailassagarsun Gyanmandir
For Private And Personal Use Only