SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शृङ्गारार्णवचन्द्रिका ११६ अत्र हर्षवचने द्विरुक्तिर्भूषणम् । रतिक्रियायां कोपेन कामिन्या निजनायकः । वामपादेन संताड्य संताड्याबध्य दण्डितः ॥ १५९ ॥ अत्र सकोपवचने द्विरुक्तिर्भषणमेव । [ X. 159 - रक्ष मां रक्ष मां कान्ते न ताडय न ताडय । मुञ्च मुञ्च प्रकोपं त्वं त्वत्पदं शरणं मम ॥ १६०॥ अत्र दैन्यवचने पुनरुक्तता न दूषणम् । रायबङ्गेन सद्दानं क्रियते क्रियते मुदा । प्रजापि परिवारोऽपि रक्ष्यते रक्ष्यते सदा ॥ १६९ ॥ अत्रार्थनिश्चये पुनरुक्तत्वं न दूषणम् । प्रसन्नोऽस्तु प्रसन्नोऽस्तु रायबङ्ग भवानहो । अनाथकं प्रजावृन्दं रक्ष रक्ष दयापर ।। १६२ || अत्र प्रसादनेऽनुकम्पायां पौनरुक्त्यं न दूषणम् । रायबङ्गमहीनाथं साक्षादिक्षुशरासनम् । तस्य पुण्यं न सामान्यं दृष्ट्वा चित्रीयते जनः ॥ १६३॥ अत्र तस्य पुण्यं न सामान्यमिति वाक्यं गर्भितनामधेयं दुष्टमपि विस्मये गुण एव । नेदं सरो वह्निकुण्डं प्रवालशयनं न च । अङ्गारराशिरधुना भृशं दहति मां द्वयम् ।। १६४ ॥ सरसो वह्निकुण्डत्वकथनं पल्लवशय्याया अङ्गारराशित्ववचनं च प्रत्यक्षविरुद्धमपि विरहे न दूषणम् । चन्द्र राहुर्न बाधेत जगदानन्दकारणम् । रोहिण्या सह तस्यास्तु मङ्गलादपि मङ्गलम् ।। १६५ ।। अत्र श्लोककथितार्थ समोऽन्योऽर्थः । प्रसिद्धकारणेन नेयोऽप्यनुशये गुणो न दूषणम् । For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy