________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-X. 158 ] १०. दोषगुणनिर्णयः . अत्र जुगुप्साकरमश्लीलमपि वैराग्यवचने न दूषणम् ।
सवज्रं काञ्चनमयं शिवागारं सराजकम् ।
मन्दिरं नृप्रतद्वैरिवर्गयोः सममोडितम् ॥१५१॥ अत्र संदिग्धमपि न दूषणं द्वयर्थबन्धत्वात् । ।
शल्यत्रयं च संज्ञां च दण्डत्रयमनीडितम् । परित्यज्य मुनीशोऽयं सन्मार्गे राजते भृशम् ॥१५२॥ अत्र शल्यादि पदमप्रतीतमपि प्रवचनप्रसंगे न दुष्टम् ।
आलिङ्ग्यमाना रमणी निजेशेन मुदं गता।
अहं शृङ्गारवाराशावित्युक्त्वा विरराम सा ॥१५३॥ अत्र मज्जामीति पदेन न्यूनमपि परवशत्वे दूषणं न ।
तत्त्वं जिनमुनीशोऽयं न जानाति न किं तु वै ।
जानातीत्येव तथाप्येतन्न गृह णाति न मुञ्चति ॥१५४॥. अत्र जानातीत्यधिकमपि पदमन्ययोगव्यावृत्तये गुणो भवति ।
विषादाद्भतमुत्क्रोधदैन्यनिश्चयगोचरे।। .. प्रसादने दयायां च द्विस्त्रिरुक्तं न दुष्यति ॥१५५॥ ..
पश्य पश्य न मां धूर्त गच्छ गच्छ निजास्पदम् । त्वया ज्ञातापराधेन फलं किं धिग् धिगीदृशम् ॥१५६॥ अत्र विषादवचने पुनरुक्तता गुणः ।
अहो कीतिरहो सूक्तिरहो मूर्तिरहो दया।
अहो बुद्धिरहो सिद्धिः कामिरायमहीपतेः ।।१५७॥ अत्र विस्मये पौनरुक्त्यं गुणः । अहोपदानां बहूनाम् ।
मदनस्य पताकेयं स्मरमन्त्राधिदेवता। ' आलिङ्ग्यालिङ्ग्य चुम्बित्वा चुम्बित्वा भुज्यतां त्वया ॥१५॥
For Private and Personal Use Only