SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - IX. 262 ] ९. अलंकारनिर्णयः प्रजाः जनाः प्रजाः पुत्राः आह्लादयन्तीति क्रियका अभिन्नश्लेषः । रायबङ्गे न दृश्यन्ते श्लिष्यन्ते च पयोधराः । उत्तुङ गा अम्बराधारा मुक्ताफलविभूषिताः ।।२५५॥ अविरुद्धक्रियाश्लेषः । वियोगं प्राप्य रायेन्द्रो मोदते हृदये परम् । नारीजनस्तु क्लिश्नाति पयोधरसहायकः ॥२५६।। बिरुद्धक्रियाश्लेषः। श्रीरायराज्ये काठिन्यं तरुणीस्तनमण्डले । अपवादो निरोष्ठयेषु काव्येषु न परत्र च ॥२५७।। सनियमश्लेषः । मन्दानिला लुण्टयन्ति दिव्योद्यानेषु सौरभम् । अथवा चञ्चरीकाश्च चोरयन्ति हि लोलुपाः ॥२५॥ नियमनिषेधश्लेषः। रायबङ गः समुद्रश्च भूभृदास्पदगौरवः । गम्भीरो भूरिरत्नाढयो लावण्याढयो विराजते ॥२५९॥ अविरुद्धश्लेषः। पयोधरविलोलोऽयं नृसिंहश्चातकायते । सन्मानसगतो बङ गो राजहंसायते सदा ।।२६०॥ उपमाश्लेषः । अर्थयोर्यत्र समयोरन्वयः क्रिययाजनि । तन्निदर्शनमित्युक्तं सदसल्लक्ष्मगोचरम् ।।२६१।। सुजनसुरकुजोऽयं रायबङ्गक्षितीशो वितरति फलमिष्टं सर्वलोकाय लोके । गगनतलनिवासी कौमुदीकामिनीशो विलसदमृतदीप्तिः किं न लोकाय धत्ते॥२६२।। For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy