________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७८
शृङ्गारार्णवचन्द्रिका [IX. 176 - तव कीर्तिमहालता जगत्सुरभूजाग्रगता स्तुतादिकैः ।
अवलम्बपदं विलोकते यवनस्तुत्यनृसिंहभूपते ॥१७६।। कीर्तेरुत्कर्षकथनार्थमसंभविलोकाग्रगमनं लोकमतिक्रम्य गमनेच्छया विलोकनं च कथितमित्यतिशयोक्तिः ।
किमास्यं शारदं चन्द्रबिम्बं कि हसनं तव ।
किं किं ज्योत्स्नेति रायस्य संदेहो जायते नृणाम् ॥१७७॥ आस्यहसनयोरुत्कर्षकथनाय वदनचन्द्रयोहसनचन्द्रिकयोर्भेत्तुं शक्यत्वेऽपि संशयपूर्वको विवेचनाभावो संभवी कथित इति संशयातिशयोक्तिः । रणभेरीरवं श्रुत्वा रायस्य जयशंसिनम् ।
जयं निश्चित्य दिक्कन्या गायन्ति जयकामिनीम् ।।१७८॥ निश्चयातिशयोक्तिः ।
महाकवीनां विस्तीर्ण हृदयं जगदद्भुतम् ।
लोकातिवतिसत्कीतिविक्रमादरतां गतम् ॥१७९॥ अद्भुतातिशयोक्तिविरोधातिशयोक्तिर्वा ।
आकारेणेङ्गितेनापि सूक्ष्मत्वाल्लक्ष्यते यदा । तदार्थो यत्र संप्रोक्तः सूक्ष्म इत्याख्यया बुधैः ॥१८०॥ सुरतसदननार्या रायबङ्गोऽनुयुक्तः
क्व गत इति तदासौ भीतिमान् पृष्ठतोऽगात् । निजपतिहृदयं साकारभेदेन बुद्ध्वा
वस वस वस तत्रैवेति वाचं ब्रवीति ॥१८१॥ प्रियया प्रियेण कृतो नायिकान्तरसंगमः प्रियस्य पृष्ठगमनाकारण सभयेन सूक्ष्म ज्ञात इति सूक्ष्मालंकारः ।
१. रीत्या
For Private and Personal Use Only