SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir पए पए जत्थ रसाउलाओ, पणंगणाओव्व तरंगिणीओ। पए पए जत्थ सुहंकराओ, गुणावलीओब्व वणावलीओ॥३९॥ पए पए जत्थ सवाणियाणि, महापुराणीव महासराणी। पए पए जत्थ सगोरसाणि, सुहीमुहाणीव सुगोउलाणि ॥४०॥ तत्थ य मालवदेसे, अकयपवेसे दुकालडमरेहिं । अत्थि पुरि पोराणा, उज्जेणी नाम सुपहाणा ॥ ४१॥ पुनः यत्र देशे पदे पदे रसाकुला-जलभृताः तरङ्गिण्यो-नद्यः सन्ति, का इव?- पणाङ्गना इव-वेश्या इव, यतस्ता अपि रसाकुला- शृङ्गाररसेन व्याप्ता भवन्ति, पुनर्यत्र देशे पदे पदे सुखकारिण्यः बनावलयो-वनानां श्रेणयः सन्ति, का इव?गुणानामावलयः - श्रेण्य इव, यतस्ता अपि सुखङ्कराः भवन्ति ॥३९॥ पुनर्यत्र देशे पदे पदे सपानीयानि-पानीयसहितानि जलभृतानीति यावत् महान्ति सरांसि सन्ति, कानीव? - महापुराणीव, यतः तान्यपि सह वाणिजैः-वणिम्भिर्वर्तन्ते इति सवाणिजानि भवन्ति, पुनर्यत्र देशे पदे पदे सुष्ठु-शोभनानि गोकुलानि सन्ति, कीदृशानि ? सह गोरसेन-दधिदुग्धादिना वर्तन्ते इति सगोरसानि, तानि कानि इव ? - सुधियां-पण्डितानां मुखानि इव,यतस्तान्यपि गोः-वाण्या रसो गोरसः तेन सहितानि भवन्ति ॥४०॥ तत्र च - तस्मिन् मालवदेशे पुराणा-जीर्णा "उज्जयिनी" नाम सुतरां प्रधाना पुरी अस्ति, कीदृशे मालवदेशे ? दुष्कालेत्यादि, दुष्कालो दुर्भिक्षः डमरो-विप्लवः बलात् परद्रव्यापहरणा लुण्टिकोपद्रव इति यावत्, दुष्कालश्च डमरश्च दुष्कालडमरौ ताभ्यामकृतः प्रवेशो यस्मिन् स तस्मिन् ॥४१॥ ********************* For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy