SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir *********************** सा य केरिसा ? - अणेगसो जत्थ पयावईओ, नरुत्तमाणं च न जत्थ संखा महेसरा जत्थ तिहे गिहेसु, सुचीवरा जत्थ समग्गलोया ॥४२॥ घरे घरे जत्थ रमंति गोरी-गणा सिरीओ अपए पए अ।वणे वणे यावि अणेगरंभा,रई अपीईविय ठाणठाणे ॥४३॥ सा च उज्जयिनीपुरी कीदृशी? इत्याह- यत्र- यस्यां नगर्यामनेकशः प्रजानां पतयः सन्ति, लोके तु एक एव प्रजापतिः ब्रह्मा प्रसिद्धोऽस्ति, तत्र तु अनेके प्रजानां-सन्ततीनां पतयः-स्वामिनः सन्तीत्यर्थः, पुनः यत्र नगर्यां नरोत्तमानां-पुरुषोत्तमानां सङ्ख्या नास्ति, लोके तु एक एव पुरुषोत्तमः श्रीकृष्णः प्रसिद्धोऽस्ति, तत्र तु बहवः पुरुषोत्तमाः सन्तीत्यर्थः, पुनः यत्र नगर्या गृहे गृहे महेश्वरा:- महर्द्धिकाः सन्ति,लोके तु एक एव महेश्वरःप्रसिद्धोऽस्ति, एकादश वा, तत्र तु गृहे गृहे इभ्याः सन्तीत्यर्थः, पुनः यत्र नगर्यां समग्रलोकाः-सर्वलोकाः सचीवराः सन्ति, लोकेतु एक एव शच्या-इन्द्राण्या वरःशचीवर-इन्द्रःप्रसिद्धोऽस्ति, तत्र तु सर्वेऽपि लोकाः सह चीवरैः-वस्त्रैर्वर्त्तन्ते इति सचीवराः सन्तीत्यर्थः ॥४२॥ यत्र नगर्यां गहे गहे गौर्य:- अदृष्टरजसः कन्याः तासां गणाः-समूहा रमन्ते कीडन्ति, लोके तु कैलासे रममाणा एकैव गौरी-पार्वती प्रसिद्धाऽस्ति, तत्र तु गृहे गृहे गौर्यः सन्तीत्यर्थः, लोकेतुएकैव श्री:- कृष्णभार्याऽस्ति,यत्र पदे पदे श्रियो-लक्ष्म्यः सन्ति, लोकेतु एकैव रम्भा-देवाङ्गना प्रसिद्धास्ति, यस्यां नगर्यां तु वने वनेऽपि अनेका रम्भाः कदल्यः सन्ति, पुनः यत्र रतिश्च प्रीतिरपि च स्थाने स्थाने अस्ति, लोके तु रतिः -कामस्त्री सा एकैवास्ति, प्रीतिरपि देवाङ्गना एकैवास्ति, तत्र तु स्थाने स्थाने रतिः-परस्पररागः प्रीतिश्चास्ति ॥४३॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy