SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सि रि सि रि वा ल क ho हा ९ * www.kobatirth.org * * Acharya Shri Kailassagarsuri Gyanmandir तो पुच्छइ मगहेसो, को एसो मुणिवरिंद ! सिरिपालो ? । कह तेण सिद्धचकं, आराहिय पावियं सुक्खं ? ॥३५॥ तो भइ मुणी निसुणसु, नरवर ! अक्खाणयं इमं रम्मं । सिरिसिद्धचकमाहप्पसुंदरं परमचुज्जकरं ॥३६॥ तथाहि- इत्थेव भरहखित्ते, दाहिणखंडंमि अत्थि सुपसिद्धो । सव्वड्ढिकयपवेसो, मालवनामेण वरदेसो ॥ ३७॥ सो य केरिसो ?- पए पए जत्थ सुगुत्तिगुत्ता, जोगप्पवेसा इव संनिवेसा । पए पए जत्थ अगंजणीया, कुटुंबमेला इव तुंगसेला ॥ ३८ ॥ ततो गौतमस्वाम्युपदेशानन्तरं मगधेशः श्रेणिकः पृच्छति हे मुनिवरेन्द्र ! एष श्रीपालः कः ? तेन श्रीपालेन राज्ञा श्रीसिद्धचक्रमाराध्य कथं सुखं प्राप्तं - लब्धम् ? ॥३५॥ ततो मुनिः- गौतमो भणति, हे नरवर! हे श्रेणिकराजन् ! इदं श्रीपालनृपसम्बन्धि रम्यं - मनोज्ञम् आख्यानकं कथानकं त्वं श्रृणु, कीदृशमाख्यानकम् ?- श्रीसिद्धचक्रस्य यतु माहात्म्यं तेन सुन्दरं रमणीयम्, अत एव परमाश्चर्यकरम् ॥३६॥ तदेव दर्शयति, अत्रैव भरतक्षेत्रे दक्षिणखण्डे -दक्षिणा मालवा सुप्रसिद्धो वरदेशोऽस्ति, कीदृशो मालवदेशः ? सर्वर्ध्या कृतः प्रवेशो यस्मिन् स ईदृशः ॥ ३७॥ च पुनः स कीदृशः ? - यत्र मालवदेशे पदे पदे संनिवेशा- ग्रामाः सन्ति, कीदृशाः ? सुगुप्तिभिः सम्यग्वृत्तिभिर्गुप्ता रक्षिता वेष्टिता इति यावत्, संनिवेशाः के इव ? - योगप्रवेशा इव योगे प्रवेशो येषां ते तथोक्ता योगिन इवेत्यर्थः, यतः योगिनोऽपि सुगुप्तिभिर्मनोगुप्त्यादिभिर्गुप्ता भवन्ति, पुनः यत्र देशे पदे पदे तुङ्गा उच्चैस्तराः शैलाः पर्वताः सन्ति, कीदृशाः ? - अगञ्जनीयाः जनानामलङ्घनीयाः, इव ? - कुटुम्बमेला इव यतः तेऽपि लोकानामगञ्जनीया भवन्ति ॥ ३८ ॥ * For Private and Personal Use Only ********
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy