SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir तं बंधिऊण कुमरो, आणइ जा निअयसत्थपासंमि । तं दळु ते नट्ठा, सत्थाहिवरक्खगा पुरिसा ॥४५३॥ धवलो बंधविमुक्को, खग्गं घित्तूण धावए सिग्धं । महकालमारणथं, सिरिपालो तं निवारेइ ॥४५४॥ गेहागयं च सरणागयं च बद्धं च रोगपरिभूयं । नस्संतं बु९ बालयं च न हणंति सप्पुरिसा ॥४५५॥ जे दससहस्ससुहडा, बब्बरसुहडेहिं ताडिया नट्ठा । तेसिं स्ट्रो सिट्ठी, जीवणवित्तीउ भंजेइ ॥४५६॥ ते सब्वेवि हु कुमरस्स तस्स मुहिआइ सेवगा जाया । कुमरेण ते निउत्ता, निअभागागयपवहणेसु ॥४५७॥ ततस्तं-राजानं बद्ध्वा कुमारो यावत् निजकसार्थपावें आनयति तावत्तं स्वनृपं बद्धं दृष्ट्वा ते सार्थाधिपस्य-धवलस्य रक्षकाः पुरुषा नष्टा:- पलायिताः ॥४५३॥ अथ धवलो बन्धविमुक्तः सन् खड्गं गृहीत्वा महाकालस्य राज्ञो मारणार्थं शीघ्रं सत्वरं धावति, तदा श्रीपालकुमारस्तं धवलं निवारयति-वर्जयति ॥४५४॥ किमुक्त्वा निवारयतीत्याह- अहो श्रेष्ठिन् ! गेहागतं-स्वगृहमागतं च - पुनः शरणागतं च - पुनः बद्धं च - पुनः रोगेण परिभूतं-पीडितं पुनर्नश्यन्तं-पलायमानं तथा वृद्धजरसाभिभूतं च - पुनः बालकमेतान् पुरुषान् वैरिणोऽपि सत्पुरुषा न घ्नन्ति-न मारयन्ति, इति नीतिवचनात् अयमपि गृहागतत्वेन बद्धत्वेन च अवध्य इति भावः ॥ ४५५॥ ये दशसहस्रसुभटा बर्बरभूपसुभटैस्ताडिताः सन्तो नष्टाः तेषामुपरि श्रेष्ठी रुष्टः सन् तेषां जीवनवृत्तीर्भनक्ति-निषेधयति ॥४५६॥ ततस्ते सर्वेऽपि भटा अन्यां गतिमलभमानाः तस्य कुमारस्य मुधिकयाविना मूल्येनैव सेवका जाताः, तदा कुमारेण ते सुभटा निजभागे आगतेषु प्रवहणेषु-पोतेषु नियुक्ता-अधिकारिणः कृताः ॥४५७॥ १०६ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy