SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीश्रीधरचरितमहाकाव्यम्। [तृतीयः स भ्रमन् विपिनमन्यदा मुनि, वीक्ष्य पूर्वसुकृतैरवन्दत ! प्रीतिमांश्च भवतापहारिणीरापिवत् तदुपदेशसारणीः ॥ १२ ॥ दु० व्या०-पूर्वभवसुकृतैः ॥ १२ ॥ जैनधर्ममनवाप्य भूपनि, के न मोहमदनादिदस्युभिः । लुण्टिता भववने चरिष्णवस्तं प्रसादय ततो मुने ! मयि ।।१३।। दु० व्या०-के पुरुषाः ।। १३ ॥ इत्यनेन वचसा विचक्षणस्तं प्रति प्रतिवरो वितीर्णवान् । द्वादशत्रतविचारपूर्वकं, धर्ममर्म शिवशर्मकारणम् ॥ १४ ॥ क्षेत्रमस्य परिवारितं तथा, कण्टकैः सुकृतवीजरोपणे । तन्त्र नैव पदमादथे यथा, धर्मवर्जितकुदृष्टिदम्युभि ॥ १५ ॥ दु० व्या०-क्षेत्र गरीरम , कण्टकैः पक्षे रोमाञ्चैः ।। १५ ।। खेचरद्वयमितश्च संघरद्, व्योम्नि वन्दितुमुपाययौ मुनिम् । वीक्ष्य तचपलहेमकुण्डलं, सोऽस्मरत कटरि धर्मजं फलम् ॥१६॥ दु० व्या०-स वि गोऽ मरत् चिन्तयामास । 'कटरि' इत्याश्चर्यकारि ।। धर्मतः सकलमङ्गलावली, धर्मनः सकलशर्मसंपदः । धर्मतः स्फुरति निर्मलं यशो, धर्म ए। तदहो ! विधीयते ॥१७॥ व्योमगद्वयमथो रथोपम, सिद्धिवर्मनि मुनि प्रणम्य तत् । तत्र पूर्वविनिविष्टवाडवं, वीक्ष्य कोऽयमिति तं व्यजिज्ञपत् ॥१८॥ दु० व्या०-तत् खेचा अम् । तं मुनिम् ॥ १८ ॥ एष वा ननु सधर्मधर्मभाग, धर्मबान्धव इति प्रपद्यताम् । तत् तथेति परिगृह्य तगिरं, वन्दनं विदधते स्म वाडवे ॥१९॥ For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy