SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपक्ष दुर्गपदव्याख्यालङ्कृतम् । [१९ दु० व्या०--वां युवयोः । सधर्मसदृशः । तत् खेचरद्वयं तन्मुनिरिति ॥ १९ ॥ ते त्रयः प्रणतसाधवो नवोद्भूतसम्मदतरङ्गरङ्गिताः।.. विश्वकाम्यकमलाश्रयास्ततो, हंसवद् वनविहारिणोऽभवन् ॥२०॥ दु० व्या०-हंसपक्षे वनं जलम् ॥ २० ॥ मित्रखेचरवितीर्ण विद्यया, वाडवोऽपि खलु खेचरोऽभवत् । योगिनां कनकचूर्णयोगतः, किं न लोहमपि हेमतो लभेत् १ ॥२१॥ प्रीतिभाक् त्रिभुवने भ्रमन् भ्रमन् , नव्यतीर्थनिवहं नमन् नमन । सोऽहमेष मुनिनारदोपमः, श्राद्धधर्मनिरतोऽस्मि भूपते ! ॥२२॥ अद्य हृद्यजिनमन्दिरोदरोत्क्षिप्तधूपभवधूमदम्भतः । निर्यदूजिततमो निरन्तरं, त्वत्पुरं नरपते ! समागमम् ।। २३ ।। जैनशासनसरःसितच्छदं, श्रावकोत्तमगुणधियां पदम् । त्वां विलोक्य नृपमौलिमण्डनं, प्राप पापवनखण्डखण्डनम् ॥२४॥ दु० व्या०-अहं कर्ता । पापवनस्य खण्डखण्डनं कर्म ।। २४ ।। भूपते : भुवि न सन्ति के नृपा ये कृपाविभवदुर्विधा मुधा। हारयन्ति हि हहा ! जनुःफलं, निष्कलङ्कसुकुतः परं भवान् ॥२५॥ दु० व्या०-जनुः जन्म ॥ २५ ॥ किन्तु सिद्धपुरुषस्य दर्शनं, निष्फलं नहि महीपते ! कचित् । तद् वर वृणु मनीषितं हितं, मा विधेहि मम फल्गु भाषितम् ॥२६॥ भूपतिस्तमवदद् विदांवरं, दर्शनात् तव ममामवद् वरम् । लब्धदुर्लभजिनेन्द्रशासने, बाह्यवस्तु न मनोहरं मयि ।। २७ ।। दु० व्या०-विदां-विदुषाम् , वरं श्रेष्ठम् ॥ २७ ॥ अङ्गजा गुणयुता मतङ्गजाः, संगमाः सुखकरास्तुरङ्गमाः । सर्वमेव सुलभं भवेङ्गिना, जैनधर्म इह दुर्लभः पुनः ॥ २८ ॥ For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy