SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन० ॥४४॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यन्तरज्योतिष्कवैमानिकाद्याः । चशब्दस्तद्गतायुर्देहादिवक्तव्यतासंसूचकः । तथा देवलोकाश्च देवानां सुरादीनां लोका- आश्रयविशेषा देवलोकाः । सिद्धाः निष्ठिता इत्यर्थः । तथा निरयेषु भवा नैरयिकास्ते च नरकनरकावासायुहदुःखादिभिश्चिन्त्यन्ते । तथेति समुच्चये ॥९१॥ जं एमाई पयत्था, आगमेण वियाणइ । उज्झित्ता सव्ववावारं, तओ य तं निसामए ॥ ९२ ॥ अन्नं च जीवाईणं, कुणई सद्दहणं तहा । ससंकियाण अत्याणं, कुज्जा पुच्छं विअक्खणो ॥ ९३ ॥ व्याख्या-`जं एमाइ० ́ यद्-यस्मात् कारणादेवमादीन् पदार्था (न्)- द्रव्यविशेषानागमेन विजानाति, जन्तुरिति शेषः । उज्झित्तेत्यादि, ततश्च तस्माद्धेतोः सर्वव्यापारमन्यत्र मनोवाक्कायनिवेशमयमुज्झित्वा तमागमं निशामयतिश्रृणोतीति ॥९२॥ अन्यच्चागममाकर्णयन् जीवादीनां नवपदार्थानां तथा यथा सूत्रे ऽभिहितानां श्रद्धानं अवितथमेतदिति प्रत्ययरूपं करोति, ते चामी- सर्वजीवाश्चैतन्येनैकधा, त्रसस्थावरभेदाभ्यां द्विधा, वेदैस्त्रिधा गतिभिश्चतुर्धा, इन्द्रियैः पञ्चधा, कायैः षड्विधा, भ्वादिपञ्चस्थावरद्वित्रिचतुःपञ्चेन्द्रियभेदैर्नवधा । सूक्ष्म १ बादर २ द्वि ३ त्रि. ४ चतुः ५ असंज्ञि पञ्चेन्द्रिय ६ संज्ञिपञ्चेन्द्रिय ७ अपर्याप्तपर्याप्तभेदाभ्यां चतुर्दशधा । सूक्ष्मबादररूपा भू जल २ अनल ३ पवनानन्त For Private and Personal Use Only सूत्रम् ॥४४॥
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy