SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनमा श्राद्धदिन० ||१३|| potook 22020 'इक्कं व दो तिन्नि व पंच सत्त, अणब्बयाई नियमे वयाई । एक्केक्कभेएण दुहा तिहेणं, पक्खं च मासं अह जावजीवं ।।२०।। दारं ३ ॥ व्या०-'एक्कं व दो०' 'एक वत्ति स्थूलप्राणातिपातादीनां द्वादशैकैकसंयोगानां मध्येऽन्यतमदेकं वा व्रतम् । तथा स्थूलप्राणातिपातमृषावादादिपदद्वयात्मकषट्षष्टिद्विकसंयोगेष्वन्यतमे द्वे वा व्रते । तथा स्थूलप्राणातिपातमृषावादादत्तादानादिपदत्रयविंशत्युत्तरद्विशतसंयोगेष्वन्यतमानि त्रीणि वा व्रतानि । वा शब्दाच्चतुष्कसंयोगादिपरिग्रहः । 'पंच सत्त०' पञ्च सप्तेति पदद्वयमेवं योजनीयम्- 'अणुब्बयाई"ति, आद्यानि पञ्चाणुव्रतानि मूलगुणाः । 'नियमे वया०' नियमेउत्तरगुणविषये सप्तान्त्यव्रतानि । अत्र भङ्गकसूचनार्थमाह-'एक्केक्क०' एकैकभेदेन व्याख्यास्यमाणलक्षणेन षष्ठभड्रेन, तथा द्विधा त्रिविधेनेति प्रथमभङ्गेन । अत्राद्यन्तग्रहणात्षड्भङ्गयपि द्रष्टव्या । सा च पञ्चाणुव्रतान्याश्रित्य लेशतो दय॑ते-स्थूलप्राणातिपातं न करोति न कारयति मनोवाक्कायैरिति प्रथमो भङ्गः १ । न करोति न कारयति च मनोवाग्भ्यां मनःकायाभ्यां वाक्कायाभ्यां वा सामान्यतो योगद्वयमङ्गीकृत्येति द्वितीयः, एवं सर्वत्र । ननु मनो विना कथं वाक्कायसंभवः ? उच्यते-अनाभोगेन विशेषोपयोगाभावाद्वा मनसो गौणत्वादसंज्ञिवन्मुख्यवृत्त्या वाक्कायव्यापारोऽवसेयः २ । न करोति न कारयति च मनसा वाचा कायेन वेति तृतीयः ३ । न करोति न कारयति वा मनोवाक्कायैरिति चतुर्थः ४ । न करोति न कारयति वा मनोवाग्भ्यां मनःकायाभ्यां वाक्कायाभ्यां वेति पञ्चमः ५ । न करोति न कारयति | वा मनसा वाचा कायेन वेति ६ । अत्र श्रावकव्रतभङ्गप्रकरणप्रकारेणानया २३, २२, २१, १३, १२, ११ षड्भङ्गया 4 hahne.hodoor bond Horor.TTTTTTTTTTT మందc000000000 ॥१३॥ Dooooo For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy