SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TOHI सूत्रम् श्राद्धदिन० ॥१३०॥ व्याख्या-'भज्जा पु०' 'जओ सब०' सुबोधौ । नवरं 'नत्तुय'ति नप्तारः पौत्राः । 'भिच्च 'त्ति भृत्याः पदातयः । मित्राणि- सुहृदः । प्रेष्याः- कर्मकराः | चशब्दाः सर्वेऽपि समुच्चये । एते च किमित्याह- आरम्भेषुपृथिव्याधुपमर्देषु सार्थकेष्वनर्थकेषु च प्रसक्तास्तत्पराः, सर्वत्रायतनाकारिण इत्यर्थः । यतो- यस्माद्धेतोः सर्वज्ञप्रज्ञप्तं जीवदयाप्रधानं धर्म न शृण्वन्ति- नाकर्णयन्ति, पुनःशब्दश्चात्र विशेषणार्थः, स च प्रमादबाहुल्यं तेषां विशिनष्टि । ततश्चायमर्थो-गाढप्रमादपरतया क्षणिका अपि ते क्षणमपि न धर्म शृण्वन्ति, तेन कारणेन धर्मोपदेशं- सम्यग्दर्शनमूलदेशविरत्यादिप्रतिपादनरूपं, तुशब्दाद्यतनोपदेशादि च, ददाति स्वगृहमागत इति ॥२४५-२४६।। ननु यदि तेषामुपदेशं न ददाति तदा को दोष इत्याशङ्क्याह सबन्नुणा पणीयं, जई धम्मं नावगाहए । इह लोए परलोए य, तेसिं दोसेण लिप्पए ॥२४७|| व्याख्या-'सबन्नुणा०' सर्वज्ञेन प्रणीतं तु यदि धर्म, तानिति शेषः, नावगाहयति, न ज्ञापयति सति सामर्थ्य इति भावः, तदा इहलोके परलोके च तेषां दोषेण लिप्यते-गृह्यते । तत्रेहलोकदोषश्चौर्यादिप्रवृत्तेर्वधबन्धनादिः, परलोकदोषस्तु दुर्गतिगमनादिरिति ।।२४७।। किं कोऽप्यन्यकृतगुणदोषाभ्यां गृह्यते ? येनेदमुच्यते, सत्य, तथा चाह जेणं लोगट्ठिई एसा, जो चोरभत्तदायगो । लिंपइ सो तस्स दोसेणं, एवं धम्मे वियाणह ||२४८॥ 10000000000000boobodboobodbodborn ||१३०॥ For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy