________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन०
1192311
www.kobatirth.org
व्याख्या-'काऊण य०' साधुसाक्षिकं पुनः सामायिकं कृत्वा ईय प्रतिक्रम्य गमनमालोचयेत् । तत आचार्यादीन् वन्दित्वा स्वाध्यायं काले चावश्यकं करोति ॥ २३२ ॥ | साम्प्रतं श्रावकस्य कार्योत्पत्तौ सामायिके पारिते ततः क्षणिकत्वसद्भावे पुनः पुनस्तत्करणेन कालवृद्धेः फलप्रदर्शनायाह
जावइयं चेव कालं तु, सड्ढो सामाइयं करे ।
तत्तियं चेव कालं तु, विन्नेओ समणो जहा ||२३३॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या-'जावइयं०' यावन्तमेव कालं पुनः पुनः मुहूर्ताद्यवस्थानलक्षणं श्राद्धः सामायिकं करोति तावन्तमेव पुनः पुनः कालं विज्ञेयोऽसौ श्रमणो यथा । अनेनैव च कारणेनानेकशः सामायिकं करोति । तथा चावश्यकनिर्युक्तौ सामाइअंमि उ कए, समणो इव सावओ हवइ जम्हा । एएण कारणेणं, बहुसो सामाइयं कुज्जा ||१||
जीवो पमायबहुलो, बहुसो वि य बहुविहेसु अत्थेसु ।
एण कारणेणं, बहुसो सामाइयं कुज्जा ||२|| ||२३३॥
एवं श्रावकसामायिकमहत्त्वे प्रदर्शिते मा मुग्धमतेः साधुसामायिकविषये गौणबुद्धिरिति तत्प्राधान्यख्यापनपूर्वक
मुपदिशन्नाह
For Private and Personal Use Only
सूत्रम्
||१२३॥