SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन० 1193311 www.kobatirth.org व्याख्या-तओ पोस० ततः तृतीयपूजानन्तरं श्रावकः पौषधशालायां गत्वा यतनया तां प्रमार्ष्टि । ततो नमस्कारपूर्वकं व्यवहिततुशब्दस्यैवार्थत्वात् स्थापयित्वैव तत्र सूरिमिति स्थापनाचार्यं ततो विधिना सामायिकं करोति, न तच्छून्यमपि सामायिकादि करोतीति । अत्राह कश्चिन्ननु किं श्रावकस्यापि क्वाप्यागमे स्थापनाचार्यस्थापनाऽस्त्यस्तीति ब्रूम : 'गुरुविरहंमि ठवणा, गुरूवएसोवदंसणत्थं च । जिणविरहमि जिणबिंब - सेवणामंतणं सहलं ॥१॥’ Acharya Shri Kailassagarsuri Gyanmandir इत्यादि विशेषवचनप्रामाण्यात् । यतिसामायिकप्रस्तावे भदन्तशब्दं व्याख्यानयता 'गुरुविरहंमी 'त्यादि भाष्यकृता साधुमाश्रित्योक्तं न श्रावकमिति चेत्, तर्हि प्रष्टव्योऽत्र भवान् किं श्रावकः सामायिकमुच्चरन् भदन्तशब्दं भणति नवा ? यदि भणति तर्हि साधुवत् साक्षाद्गुरोरभावे सोऽपि स्थापनाचार्यं स्थापयति, उभयत्रापि न्यायस्य समानत्वात् । द्वितीयश्च पक्षो न घटत एव । तद्वर्जसामायिकस्यार्हतैवोच्चरणीयत्वात् । नोदना त्वेतस्य वृत्तितो ज्ञेया ||२३१|| अथ तत्र साधवोऽपि सन्ति, श्रावकेण गृहे सामायिकं कृतं, ततोऽसौ साधुसमीपे गत्वा किं करोतीत्याह काऊण य सामाइयं, इरियं पडिक्कमिय गमणमालोए । वंदित्तु सूरिमाई, सज्झायावस्सयं कुणई ॥२३२॥ For Private and Personal Use Only सूत्रम् 1192211
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy