________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आ. नास्ति // पितुः स्नानं तत्रापि भवति // मृतके तु अनुपनीतमरणादि- नि. | निमित्तकत्रिरात्रादिषु भगिनीमातुलादिमरणनिमित्तकत्रिरात्रादिषु चातिक्रांताशौचं नास्ति // किंतु दशाहादिमृताशौचविषयमेव // 45 // दशाहमध्ये जनने मरणे ज्ञाते पुत्रादीनां च सर्वेषां शेषेणैव शुद्धिः॥ संस्कारमपि शेषेणैव समापयेत् // अस्थिपर्णशरसंस्कारमपि शेषेणैव समापयेत् // 46 // आद्यत्रिरात्रमध्ये समानोदकमरणे ज्ञाते समानोदकानां शेषेणैव शुद्धिः // त्रिरात्रेऽतिक्रांते तु दशाहमध्ये ज्ञातेऽपि नाशौचं किंतु स्नानमात्रम्॥ अयमेव न्यायो मातुलादित्रिरात्रादिषु ज्ञेयः॥४७॥ मातापित्रोमरणे दूरदेशेऽपि संवत्सरांतरपि श्रवणे पुत्रो | दशाहादिपूर्णमेवाशौचं कुर्यात् // 48 // स्त्रीपुंसयोः परस्परमरणे | परस्परं देशांतरे वत्सरांतेऽपि पूर्ण दशाहादि भवति॥४९॥ सपत्नीषु परस्परमृतौ परस्परस्य देशकालावनपेक्ष्य दशाहं पूर्णमेवाशौचं भवति MARA - - For Private and Personal Use Only