SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुञ्जय । कल्पवृ० ॥ ३० ॥ 25 25 25525 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इतः शाश्वततीर्थेषु नत्वा देवान् प्रियायुतः । उद्याने समगाद्यावत् तावत् कूटशुको जगौ ॥ १४९ ॥ भो मन्त्रीश ! प्रिये व्योम - विद्यां हृत्वा य ईयिवान् । स एवात्र समायातो राज्यं लातुं ममाधुना ॥ १५० ॥ स चारित मायिकः कूट-कपटादिविधौ पटुः । कार्यस्तस्य न विश्वासो भवद्भिर्वचने मनाग् ॥ १५१ ॥ ये पत्न्यौ मोहिते तस्मिन् परस्त्रीलम्पटे नरे । तयोरपि न विश्वासः कार्यो भवद्भिरेकदा ।। १५२ ॥ चक्रे कूटः शुकः सर्वान् स्ववशान् सचिवांस्तदा । यथा सत्यशुकस्याऽक्षि- गोचरे ते ययु नहि ॥ १५३ ॥ * यतः – आसन्नमेव नृपतिर्भजते मनुष्यं विद्याविहीनमकुलीनमसंस्तुतं वा । फ्र प्रायेण भूमिपतयः प्रमदा लता वा, यत्पार्श्वतो भवति तत् परिवेष्टयन्ति ॥ १५४ ॥ * अश्वः शास्त्रं शस्त्रं वीणा वाणी नर नारी च । पुरुषविशेषं प्राप्ता भवन्त्ययोग्याश्च योग्याश्च ॥ १५५ ॥ यदा कोपि प्रधानादि-जनः सत्यशुकं मनाग् । न मन्यते तदा दध्यौ शुको राज्यं गतं मम ॥ १५६ ॥ प्रतिकूले विधौ किञ्चिन्नैव स्यादात्मनः क्वचित् । ममाधुनाऽखिलो मन्त्रि वर्गों विघटितः खलु ॥ १५७ ॥ * यतः— तावच्चन्द्रबलं ततो ग्रहबलं तावद् बलं भूचलं, तावत्सिद्धयति वाञ्छितार्थमखिलं तावञ्जनः सञ्जनः । मुद्रा मण्डलमन्त्र तन्त्रमहिमा तावत्कृतं पौरुषं यावत्पुण्यमिदं महद्विजयते पुण्यक्षये क्षीयते ॥ १५८ ॥ ततस्तस्मात् पुरात्तस्य यातोऽन्यत्राऽम्बराध्वना । विमानं स्खलितं यत्र तत्रेति ध्यातवान् शुकः ॥ १५९ ॥ For Private and Personal Use Only asasa2525252525257525255725 ॥ ३० ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy