SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शत्रुञ्जय कल्पवृक्ष ॥२९॥ ESESTSESES1525SEST2SSTSTS चकार राजर्षिरविविहारं, भव्याङ्गि-राजीवविबोधनार्थम् । शुकः क्षितीशश्च चकार राज्य, प्रवर्तयन न्यायपथे जनौघम् ॥१३७ ॥ आराध्याथ सुरं चन्द्र-शेखरो भक्तिपूर्वकम् । भोक्तु चन्द्रवती रूपं शुकस्यामार्गयत्तमाम् ॥१३८ ।। चन्द्रशेखरभूपालो राज्यं वाञ्छन् शुकस्य हि । विदेशगमनं तस्य ववाञ्छ प्रतिवासरम् ॥ १३९ ॥ शुकः पद्मावतीवायु-वेगापत्नीयुतोऽन्यदा । शाश्वतानहतो नन्तुं चचाल शुभवासरे ॥१४॥ शुकरूपधरश्चन्द्रशेखरः शुकसअनि । गत्वा निश्यमिलत् चन्द्र-वत्या भोगस्य हेतवे ॥१४१ ॥ शुकरूपधरो देव-प्रभावात् चन्द्रशेखरः । कुर्वाणे निशि पूत्कार-मुत्तस्थाविति तत्क्षणात् ॥ १४२ ॥ मम-पत्नीद्वयं व्योम-विद्यां च कोऽपि खेचरः । लात्वा ययावहं तेन पश्चादत्र समागमम् ॥१४३ ॥ मन्त्रिणो जगदुः स्वामि-स्तवास्ति कुशलं तनौ । शुकोऽवक कुशलं मेऽस्ति शरीरे साम्प्रतं किल ॥ १४४॥ उक्तं च मन्त्रिभिः स्वामिन् ! लक्ष्मीपत्नीसुतादयः । भवन्ति भूरिशो भूयो जीवितं न कदाचन ॥१४५॥ * यतः-" मातापितृसहस्राणि पुत्रदारशतानि च । संसारेऽत्र व्यतीतानि कस्य कोऽयं भवेञ्जनः" ॥१४६॥ शुकदेहधरो देव-प्रभावात् चन्द्रशेखरः । प्रजाः पाति सदा सत्य-शुकवत् निखिलाः खलु ॥१४७॥ चन्द्रवत्या समं भोग-सुखं श्रयन् मुदा सदा । मायायाः सदनं चन्द्र-शेखरोऽभून् महीपतिः ॥१४८ ॥ SSSSSSSSESSES For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy